SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir निति । मुखवर्णस्य उग्रमुखवर्णस्य ॥३५॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥३५॥ तत इत्यादि । ततः कैकेयीसम्मत्यभावानन्तरम् । अत्र वरदानविषये ॥ १॥ सूतेति । अनुयात्रार्थ प्रतिविधीयतां प्रेष्यताम् ॥२॥रूपाजीवा इति ।। नैव सा क्षुभ्यते देवी न च स्म परिदूयते । न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा॥३५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चत्रिंशः सर्गः॥ ३५ ॥ ततः सुमन्त्रमैक्ष्वाकः पीडितोत्र प्रतिज्ञया। स बाष्पमतिनिश्वस्य जगादेदं पुनःपुनः॥१॥ मूत रत्नसुसम्पूर्णा चतुर्विधवला चमूः। राघवस्यानुयात्रार्थ क्षिप्रं प्रतिविधीयताम् ॥ २॥ रूपाजीवाश्च वादिन्यो वणिजश्चमहा धनाः। शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः॥३॥ ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः । तेषां बहुविधं दत्त्वा तान्यप्यत्र नियोजय ॥४॥ आयुधानि च मुख्यानि नागराः शकटानि च। अनुगच्छन्तु काकुत्स्थं व्याधा श्चारण्यगोचराः॥५॥ निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यक मधु। नदीश्च विविधाः पश्यन्न राज्यस्य स्मरि ष्यति ॥६॥धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः । तौ राममनुगच्छेता वसन्तं निर्जने वने ॥ ७॥ रूपाजीवा वेश्याः । “वारस्त्री गणिका वेश्या रूपाजीवा" इत्यमरः । वादिन्यः परचित्ताकर्षणचतुरखचनाः । सुप्रसारिताः शिविरदेशे पण्यपदार्थप्रसारणं कुर्वन्तः॥ ३॥ य इति । एनं रामं बहुविधं सुवर्णरत्नवस्त्रादिकम् । अत्र वाहिन्याम् ॥४॥ आयुधानीति । आयुधानि आयुधधराः। नागराः नगरजाः Vश्रेष्ठिनः । शकटानि तेलघृतादिप्रापकाणि । व्यापाः वने मार्गदर्शिनः ॥५॥ निननिति । राज्यस्येति “अधीगर्थदयेशा कर्मणि" इति षष्ठी ॥६॥धान्यकोश भूयः अत्पर्धम् ॥ ३४ ॥ नैव सेति । तीक्ष्णैर्वाक्यैः न शुभ्यते, सान्त्वन परिदयते न व्यधते ॥ ३५ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्व दीपिकाख्यायो अपोध्याकाण्डव्याख्यायां पञ्चविंशः सर्गः ॥ ३५ ॥ तत इति । ततः कैकेय्यनङ्गीकारानन्तरम्, अब वरदानविषये । प्रतिज्ञया केकीयीमुदिश्य कृतया। इदं वक्ष्यमाणम् ॥ १॥ सूतेति । अनुयात्रार्थ सेवार्थम् । प्रतिविधीयतां प्रस्थाप्यताम् ॥२॥ रूपेति । वादिन्यः परचित्ताकर्षकवचनचतुरा, रूपाजीवा गणिकाः । सुप्रसारिताः शिविरसन्निवेशे पण्यपदार्थप्रसारणं कुर्वन्तः॥ ३॥ ये चोति । वीर्यतः वीर्यपरीक्षार्थ यः रमते एनं रामं बहुविध सुवर्णरत्नादिकम् ॥ ४-७॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy