________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
N
अनृतेन योजयन् सन् राज्यादिकं न वृणीय तव व्रतं यथासत्यं तथास्त्वित्यन्वयः ॥५८॥ मम दुःखं भविष्यतीति त्वया न केष्टव्यमित्याइ-फलानीति । निवृतिः सुखम् ॥१९॥ एवमिति । एवम् उक्तवन्तमितिशेषः। त्वग्दाहोत्पादकः शोकः । दुःखम् अन्तर्व्यथोत्पादकम् । न चिचेष्ट न चेष्टते स्म ॥६॥
फलानि मूलानि च भक्षयन वने गिरीश्च पश्यन् सरितःसरांसि च । वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः॥५९॥ एवं स राजा व्यसनाभिपन्नः शोकेन दुःखेन च ताम्यमानः । आलिङ्गय पुत्रं सुविनष्टसंज्ञो मोहं गतो नैव चिचेष्ट किंचित् ॥६॥ देव्यस्ततः संरुरुदुः समेतास्तां वर्जयित्वा नरदेवपत्नीम् । रुदन सुमन्त्रोपि जगाम मूर्छा हाहाकृतं तत्र बभूव सर्वम् ॥६॥ इत्यार्षे श्रीरामायणे श्रीमदयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥३४॥ ततो निर्द्धय सहसा शिरो निश्वस्य चासकृत् । पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाप्य च ॥१॥ लोचने कोपसंरक्ते वर्ण पूर्वाचितं जहत् । कोपाभिभूतः सहसा सन्तापमशुभं गतः ॥२॥मनः समीक्षमाणश्च सूतो दश
रथस्य सः। कम्पयन्निव कैकेय्या हृदयं वाक्छरैः शितैः ॥३॥ देव्य इति। तां 'राम तस्मादितः शीघ्रं वनं गन्तुं त्वमर्हसि' इत्याद्युक्तक्रौर्ययुक्तां कैकेयीम् । हाहाकृतं हाहाशब्दस्य कृतं करणं यस्मिंस्तत्तथा। सर्व परिचा रकादि जनजातम् ॥६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥३४॥ सुमन्त्रस्य कैकेयीविषयकोपानुभावं दर्शयति-तत इत्यादि । कटकटाप्य कटकटाशब्दयुक्तान् कृत्वा । कटकटाशब्दात् “तत्करोति" इति ण्यन्ताल्ल्यप् ॥१॥ कोपस रक्ते कृत्वतिशेषः। वर्ण देहकान्तिम्।पूर्वाचितं पूर्वाभ्यस्तम्,स्वाभाविकमित्यर्थः। जहत् त्यजन्,कोपरक्ताङ्ग इत्यर्थः। अशुभं तीब्रमित्यर्थः । मनः समीक्ष एवमिति । शोकः बाष्पः त्वग्दाहोत्पादकः । दुःखम् अन्तर्व्यथोत्पादकम् ॥ ६० ॥ देव्य इति । तां कैकीयीम् । हाहाकृतं हाहाशब्दस्य कृतं करणं यस्मिन् तत्तथा। सर्व परिचारिकादिजनजातम् ॥ ६१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां चतुर्विंशः सर्गः ॥ ३४ ॥ तत इत्यादि । लोचने कोपसंरक्ते, कृत्वेति शेषः । वर्ण देहकान्तिम् । मनस्समीक्षमाणः कैकेयीविषयस्नेहरहितं जानन्नित्यर्थः ॥ १-४॥
स०-व्यसनाभिपन्नः वेः परमात्मनः असन निरसनम् अभिपन्नः प्राप्तः, राम बने प्रेषितवानिति वाचन । दुःख्न प्रान्तरेण । तापेन बहिन वादिना । विनष्टसंश: अध्यकापत्यभागवबुद्धिः । भूमि गतः -लौकिक किदिन विवेद ॥ ६ ॥
For Private And Personal Use Only