________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
को
जा.रा.भू. प्रकटार्थम् । एवं वक्ष्यमाणरीत्या ॥ १॥ प्रथितमुवाचेत्युक्तं विशदयति-दुन्दुभिस्वनकल्पेनेति । दुन्दुभिस्वनकल्पेन भेरीस्वनसदृशेन । ईषदसमाप्तौ १०कल्पपप्रत्ययः । गम्भीरेण गम्भीरार्थेन । अनुनादिना दिशः प्रतिध्वनयता। स्वरेण महता-महता स्वरेण नादयन् जीमूत इव मेघ इव स्थितः राजास.२
उवाच । पुनः स्वरः कीदृशः १ राजलक्षणयुक्तेन प्रभावानुरूपेण कान्तेन मृदुना रसयुक्तेन माधुर्यवता ॥२॥३॥ स्वकृतराज्यपरिपालनस्य पूर्वकृत।
दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना।स्वरेण महता राजाजीमूत इव नादयन् ॥२॥ राजलक्षणयुक्तेन कान्तेना नुपमेन च। उवाचरसयुक्तेन स्वरेण नृपतिर्नुपान् ॥ ३॥ विदितं भवतामेतद्यथा मे राज्यमुत्तमम् । पूर्वकैर्मम राजेन्द्रः सुतवत्परिपालितम् ॥४॥ सोऽहमिक्ष्वाकुभिः पूर्वेनरेन्द्रैः परिपालितम् । श्रेयसा योक्तकामोऽस्मि सुखाई
मखिलं जगत् ॥५॥ मयाप्याचरितं पूर्वेः पन्थानमनुगच्छता। प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥६॥ पालनादविशेष सूचयन्नाह-विदितमिति । अन्ते इतिकरणं द्रष्टव्यम् । उत्तमं विपुलं मे एतद्राज्यं मम पूर्वकैः पूर्वैः राजेन्द्रः रघुप्रभृतिभिः सुतवत्परि पालितम् । अतिप्रेम्णा सुरक्षितमित्येतद्भवतां विदितं “क्तस्य च वर्तमाने" इति षष्ठी । भवद्भिर्विदितमित्यर्थः ॥ १ ॥ अस्तु, ततः किमित्यत्राहसोऽहमिति । सः तद्वंश्योऽहम् । इक्ष्वाकुभिः इक्ष्वाकुवंश्यः। सर्वेः नरेन्द्रैः परिपालितम्, अतएव सुखाई अखिलं जगत् राज्यं श्रेयसा सुखेन अधुनापि योक्तुं कामयत इति योक्तुकामः अस्मि । “तुं काममनसोरपि” इति मकारलोपः । योक्तुमिच्छामीत्यर्थः ॥५॥ ननु भवत्कृतं पालनमेवास्माकं श्रेय इत्यत्राह-मयापीति । पूर्वः राजभिः आचरितं क्षुण्णं पन्थानं मर्यादाम् अनुगच्छता अनुसरता । नित्यं अनिद्रेण जागरूकेण मयापि प्रजाः यथाशक्त्य गतजनम्, हितमुत्तरत्र श्रेयस्करम् । उद्धर्षणम् आनन्दजनकमित्यर्थः । प्रथितम् अर्थगरिष्ठतया प्रसिद्धमित्यर्थः ॥१॥ दुन्दुभीति । अनुनादिना प्रतिध्वनिना स्वरेण नादयन, दिश इति शेषः । गम्भीरेण महता स्वरेणोवाचेति पर्वेण सम्बन्धः |राजेति। राजलक्षणयुक्तेन राजवाक्यानुरूपलक्षणयुक्तेन । माधुर्यरसयुक्तेन नृपति देशरथः, नृपानुवाच ॥३॥ विदितमिति । मे राज्यं मयेदानी पाल्पमानं राज्यमित्यर्थः । मम पूर्वकैः राजेन्द्रमन्वादिभिः, यथासुतवत् पुत्रेण तुल्यं परिपालितम् । एतत्परिपालनम्, भवतां भवद्भिर्विदितमित्यर्थः ॥ ४ ॥ ततः किम् ? तबाह-सोहमिति। इक्ष्वाकुभिरिक्ष्वाकुवंश्यैर्नरेन्द्रः परिपालितं मुखाई जगत् श्रेयसा श्रीरामा भिषेकरूपेण योक्कामोस्मि ॥५॥ मत्कृतं परिपालनं भवदनुभवसाक्षिकमित्याह-मयेति । पूर्वैरिक्ष्वाकुप्रभृतिभिराचरितं पन्यानं सन्मार्ग प्रजापरिपालनरूपम् ।।
For Private And Personal Use Only