________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
भक्तिः । स्थिरप्रज्ञः भक्तिजन्याप्रकम्प्यतत्त्वज्ञानः, अतएव नासद्ग्राही नासदर्थग्राही । असज्जनसंग्रहणरहितो वा । न दुर्वचाः न परुषभाषी। निस्तन्द्रिः आलस्यरहितः, सर्वदा शास्त्रपरिशीलनपर इत्यर्थः । अतएवाप्रमत्तः शास्त्रार्थेष्वनवधानरहितः । स्वदोषपरदोपवित् लोके कश्चित् पश्यति परदोष आत्मदोषं न पश्यति अयं तु न तथा. परदोषवत्स्वदोषं च पश्यत्येवा वक्ष्यति भरतं प्रति "शिरसा याचतस्तस्य वचनं न कृतं मया" इति॥२४||शास्त्रज्ञ
शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः। यःप्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥ २५॥
सत्सङ्ग्रहप्रग्रहणे स्थानविन्निग्रहस्य च । आयकर्मण्युपायज्ञःसन्दृष्टव्ययकर्मवित् ॥ २६ ॥ इति । शास्त्रज्ञः साङ्गवेदातिरिक्तविद्यास्थानज्ञः। कृतं कृतान्तं सिद्धान्तं जानातीति कृतज्ञः। अतः कथंचिदुपकारेण कृतेनैकेन तुष्यतीत्यनेन न पुनरुक्तिः Kalपुरुषाणामन्तरं तारतम्यं तत्र कोविदः पण्डितः। पुरुषदर्शनमात्रेणायं साधुरयमसाधुरिति तत्तत्स्वरूपविशेषज्ञ इत्यर्थः । यः प्रसिद्धः। प्रग्रहः मित्रादि
स्वीकारः, अनुग्रहः स्वीकृतपरिपालनम् । तयोः यथान्यायं यथाशास्त्रं विचक्षणःसमर्थः,शास्त्रमर्यादामनतिकम्य मित्रस्वीकारादिकृदित्यर्थः। "सुप्सुपा" इतिसमासः ॥२५॥ सदिति । सतां संग्रहे स्वीकारे प्रग्रहणे परिपालने च, विचक्षण इति शेषः । निग्रहस्य असन्निग्रहस्य च स्थानवित् अवकाशवित् । "अवकाशे स्थितौ स्थानम्" इत्यमरः । आयकर्मणि न्यायप्राप्तधनार्जनकर्मणि उपायज्ञः पुष्पेभ्यो मधु मधुकर इव अपीडनेन प्रजाभ्यो धनमादातुं]d दृढस्नेहः । यद्वा अनुसरणीयवसिष्ठदशरथादिषु दृढानुराग इत्यर्थः । स्थिरप्रज्ञा-स्थिरा विस्मृतिरहिता प्रज्ञा यस्य सः । स्थिरप्राज्ञः इति पाठे-स्थिरः सर्वदा सर्वैरप्यविचाल्यः प्राज्ञः स्वभावो यस्य । नासदाही-असदर्भग्राही न भवतीति समासः । यद्वा असत्पुरुषपरिग्रहरहितस्वभावः। न दुर्वचाः परोद्वेजकवचनरहितः । स्वदोषपरदोषवित स्वरन्थपररन्धज्ञः ॥ २४ ॥ कुतज्ञः परेण आत्मार्थ कृतमुपकारमल्पमपि बहुतया स्वोपकारत्वेन जानातीति तथोक्तः । पुरुषान्तरकोविदः पुरुषतारतम्यज्ञः। यद्वा आन्तरम् अभिप्रायः, परपुरुषगूढाभिप्रायज्ञ इत्यर्थः। प्रमहानुग्रहयोर्यथान्यायं विचक्षणः प्रथममात्मीयत्वेन परिग्रहः प्रग्रहः, अनुग्रहो नाम परिगृहीतस्य नैरन्तर्येणानुवर्तनम् तयोर्यथान्यायं युक्तायुक्तविचारानतिक्रमः, तत्र विचक्षणः निपुणः ॥ २५ ॥ सत्सकहप्रग्रहणे सत्सकहे सजनस्वीकारे, प्रग्रहणे| तत्परिपालने । यथान्यायं विचक्षण इति पूर्वेणान्वयः । एकवद्भावः । यद्वा सत्सङ्ग्रहः-सदाचारः, तस्य प्रग्रहणे अनुष्ठान इत्यर्थः । स्थानविनिग्रहस्य च दुष्टनिग्रहस्य - मुनि०-य इति । प्रग्रहानुग्रहयोः-प्रमहः शरणागतस्य प्रथमस्वीकारः, अनुमहो नाम स्वीकृतस्य परिपालनम, तयोर्यथान्यायं न्यायमनतिक्रम्य विचक्षणः रक्षितुं समर्थः । युक्तायुक्तविचारमनतिक्रम्य करणचतुर इत्यर्थः । सत्समहः सदाचारः, तस्य प्रकर्षण ग्रहणे समर्थः । स्थानवित् निरहस्य च दुनिग्रहस्य स्थान वित् चकारान्छिष्टपरिपालने च । यदा प्रहः करादीनां प्रमहणम्, अनुग्रहः तस्मिन् सावशेषग्रहणम् । कृतागसामपराधानुसारेण वचनस्य मोक्षणस्य च यथाशास्त्रमनुपाने निपुणः । लत्तइग्रहप्रमहणे-सत्तां दूरस्यानां सड्महे स्वीकारे प्रग्रहण प्रकर्षेण क्षेत्रदानभूषणादिभिः स्थितिकरणे प्रणये वा विचक्षणः ॥ २६॥
For Private And Personal Use Only