________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
स०
वा.रा.. कृतास्मि ॥४२॥ दुःखान्तरमाह-य इति। त्वयि प्रोषिते यः स्वजनः मां सेवते परिचरति । अनुवर्तते प्रियोक्तिं करोति । सोऽपि कैकेय्याः पुत्रं भरत मन्वीक्ष्य तद्भयादित्यर्थः । नाभिभाषते नाभिभाषेत ॥४३॥ नित्यकोधतयेति । खरवादि परुषवचनशीलम् । तत् पूर्वानुभूतम् । दुर्गता अगतिका ॥४४॥
यो हिमा सेवते कश्चिदथवाप्यनुवर्त्तते । कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥४३॥ नित्यक्रोधतया तस्याः कथं नु खरवादितत् । कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता॥४४॥
दश सप्त च वर्षाणि तव जातस्य राघव । आसितानि प्रकांक्षन्त्या मया दुःखपरिक्षयम् ॥४५॥ दशेति । तव जातस्य त्वयि जाते सति । दश सप्त च वर्षाणि दुःखपरिक्षयं प्रकासन्त्या तव यौवराज्येनोति भावः। मया सुखमासितानि आस्थितानि । ननु“ऊनपोडशवर्षों मे रामो राजीवलोचनः" इति विश्वामित्रं प्रति दशरथवचनात् विवाहानन्तरम् “उपित्वा द्वादश समा इक्ष्वाकूणां निवेशने" इत्युपरि सीतया वक्ष्यमाणत्वाच्च रामस्याशाविंशतिवर्षाणि वर्तन्ते । तत्कथं दश सप्त च वर्षाणात्युच्यते इति चेत्, नैष दोषः । अत्र जातस्येत्युक्तिः द्वितीयजन्मापेक्षया “गर्भकादशेषु राजन्यम्" इति बहुवचने गर्भनवममारभ्य क्षत्रियस्योपनयनकालत्वोक्तेः । “वयसा पञ्चविंशकः" इति सीता अपि च त्वयि प्रोषिते भरते च राजनि कैकेय्याः पुत्रमन्वीक्ष्य यो हीदानी सेवते कश्चित् अथवाप्यनुवर्तते,मदिष्टस्सॉपिजनो नाभिभाषते ॥४३॥ अपि चमद्विषये तस्याः नित्यक्रोधतया खरवादिनं परुषवचनशीलम् । लिङ्गव्यत्यय आर्षः । (खरवादिनमितिपाठः) दुर्गतादुर्दशापना ॥४४॥ तव जातस्य त्वयि जातेसति दश सप्त पाच वर्षाणि दुःखपरिक्षयं प्रकक्षित्या मया सुखमासितानि आस्थितानि । नतु “ऊनषोडशवर्षों मे रामो राजीवलोचनः" इति विश्वामित्रमुद्दिश्य दशरथेनोक्तत्वात् विवाहानन्तरम् “ उपित्वा द्वादश समा इक्ष्वाकृणां निवेशने" इत्युपरि सीतया अनसूयाँ प्रति वक्ष्यमाणत्वाच्च रामस्य अष्टाविंशतिवर्षाणि वर्तन्ते, तत्कथं सप्त दशवर्षाणीत्युच्यत इति चेत् ! न; अब जातस्येत्युक्तिः "गर्भेकादशेषु राजन्यम्" इत्युक्तोपनयनप्राप्तद्वितीयजन्माविवक्षया, न तु प्रथमजन्मतः । उपनयनकर्मणा द्विजानां द्वितीयजन्मत्वं याज्ञवल्क्येनोक्तम्-"मातुर्यदने जायन्ते द्वितीयं मोनिवन्धनात् । अत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ ब्राह्मणक्षत्रियविशस्त चस्मादेते द्विजातयः ॥” इति । यद्वा तव जातस्य त्वयि जाते उपनयनानन्तरं दश सात वर्षाणि दुःखपरिक्षयं प्रकान्त्या मया आसितानि, उपनयनप्रभृति सुताः
परिणमन्त इति मातृणां मनसो निर्वृतिर्भवति । उपनयनं तु 'गमकादशे राजन्यम्' इति सूत्रव्याख्याने गर्भकादशेप्पिति बहुवचनेन गर्भनव म-गर्भदशम-गर्भाशय कादशानि गृहीतानि । राजवर्यस्य रघुनाथस्य तु गर्भनवमे शुद्धाष्टमे वर्षे उपनयनं कृतम्, अतः उपनयनानन्तरं सप्तदश वर्षाणि जातानि । अत्र विवाहात्पूर्व
॥८॥
For Private And Personal Use Only