________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुष्टुब्-वृत्तम् योगत्रिकं स्थिरीकृत्य, परमं शान्तिदायकम् । भजस्व रे ! महावीर जिनशासननायकम् ।।
प्रथमा गीतिः ( ओ वीर शासन स्वामी--इति रागण गीयते )
भज भज रे! महावीरं, जिनशासननायकम् । निष्कारण-करुणावन्तं, घनविघ्नविनायकम् ॥
॥ध्रुवपदमिदम्।। इतरत्सर्वं भजसे त्वं, खलु वाञ्छापरवशः । ख । तत्सर्वं न कदापि, तव भवति सहायकम् । निष्का० ।। १ ।। वर्तन्ते स्वयं ह्यनाथास्ते किं तव पातार: ? ते कि.... अहिदष्टानां वर्षाभू-शरणं, किमु पायकम् ? निष्का० ॥ २ ॥ महावीरपदे ये लग्ना, मग्ना न भवाम्बुधौ । मग्ना० । अचिरान्मोक्षं लप्स्यन्ते. सुतरां सुखदायकम् । निष्का० ॥ ३ ॥ त्यक्त्वा 'चन्दन' ! परसेवां, सेवस्व जिनेश्वरम्, ।सेव० । भग्नाया मानसवृत्तेः सुन्दरसन्धायकम् । निष्का० ।। ४ ।।
For Private And Personal Use Only