________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
परस्त्रीणां च सम्भोगे तेषां लक्ष्मीविकर्षणम् । महिष्यश्वीगवां भोगे ध्रुवमारोग्यतां दिशेत् ॥ ३०॥ नाभौ वल्लीद्रुमादीनां प्ररोहे राज्यमुत्तमम् । अन्त्राणां वेष्टनं द्रंगे तदीशत्वप्रकाशकम् ॥३१॥ सर्पदंशात्करे लाभः साहस्रो दशमे दिने । श्वेतसर्पस्य भृङ्गस्य भ्रमर्या वृश्चिकस्य च ॥३२॥ जलौकसो गजाध्ध्वंसः स महालाभहेतवे । रज्जूभिर्निगडैर्बन्धो विवाहः सुतकारकः ॥३३॥ मरणं स्त्रायुषो वृद्धयै महासन्मान लाभदम् । शूलारोहो राज्यदायी चर्मप्रावरणा धनम् ||३४|| शास्त्रपाठो विवेकाय भक्ष्यपाकश्च लाभदः । द्यूते वादे रणे चैव जयो विजयते ध्रुवम् ||३५|| राज्यं च शिरसो मेदा-त्सप्तधातुवधात् त्रिधा । गोशृङ्गतारा सूर्येन्दु-भुतकीलालपानतः
-113811
ध्वजालिङ्गनतस्तथा ।
नाभेर्जलोद्भवाच्चैव सिंहसर्पव्याघ्रघाता- मणिपात्रे च भोजनात् ||३७|| गिरिदुमोन्मूलनाच्च राज्यमेव विनिर्दिशेत् । स्वाङ्गकर्तनतः सौख्यं दर्पणस्यापि लाभतः ॥ ३८ ॥ मुद्रावीणासजो लाभात् पृष्ठमानी समागमम् | पातात् प्रतोलीदुर्गादे - निर्भयत्वं चिरं भवेत् ॥ ३६ ॥
For Private And Personal Use Only