________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
फलादिखादने नृणा-मचिन्तितधनागमः । नृखादने महीशत्वं पुण्यं स्याद्धिमखादने ॥२०॥ पीनश्वेतादृतिभृतो नार्या आलिङ्गनं शुभम् । सुहृदालिङ्गनं श्रेष्ठं नृपालिङ्गनमिष्टदम् ॥२१॥ आलिङ्गनं जीवतां च तस्तैः प्रीतिकरं परम् । लेपश्चन्दनविण्मूत्र---दध्नामधिकलाभदः ॥२२॥ अगम्यागमनं श्लाघ्यं विना शुकविरेचनैः । मलिनास्वरतं विद्यात् सस्त्रीसुरतं शुभम् ॥२३॥ चुम्बनालिङ्गनरत-- स्तनमर्दनकर्म यत् ।। तन्नृणां शुभदं स्त्रीभि-यदि क्षरति नो बलम् ॥२४॥ देवीप्रसादजनकं लक्ष्मीवृद्धिसुखप्रदम् । बीजभ्रशं विना नारी--स्पर्शनालिङ्गनादिकम् ॥२५॥ देहे नारीप्रवेशस्तु . महाश्रीराज्यदायकः । पुष्पवृष्टिः पुष्पलाभः स्वर्णवस्त्रादिवरणम् ॥२६॥ तत्र देहे स्वदेहे च सुखवृद्धिकरं परम् । देहस्य ज्वलने सौख्यं शय्यादिज्वलने तथा ॥२७॥ गृहस्य ज्वलने लक्ष्मी--मिदाहे तटीशिता । ज्वलने सर्व देशस्य महाराज्यं विनिर्दिशेत ॥२८॥ वस्त्राणि क्षालयन्नृणामृणमुक्ति विनिर्दिशेत् । हस्तयोः क्षालने भोगान् पादशौचे च पूज्यताम् ॥२६॥
For Private And Personal Use Only