________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
व्याख्यान विधि
सर्वोऽप्यनाभोगो मिथ्यात्वमिति ब्रमः, किन्तु यो ह्यज्ञानसमानाधिकरणः सोऽनाभोगो मिथ्यात्वं । ज्ञानसमानधिकरणम्तु छद्मस्थत्वाभिव्यंजकः सन् क्वचिदतिचाररूपोऽपि स्यादिति तात्पर्यमिति गाथार्थः ॥ ७९ ॥
अथ पंचानामपि मिथ्यात्वानां व्यक्तत्वाव्यक्तत्वाभ्यां विवेकमाहतत्थवि जमणाभोगं, अवत्तं सेसगाणि वत्ताणि । चत्तारिवि जं णिअमा, सणाणं हुंति भवाणं ॥८०॥
व्याख्या-तत्रापि-पञ्चस्वपि मिथ्यात्वेष अनाभोगो मिथ्यात्वमव्यक्तं, देवगुरुधर्मविषयकव्यक्तचेतनाशून्यत्वात् । शेषाण्येवशेषकानि-आभिग्रहिकादीनि चत्वाय पि व्यक्तानि,देवादिविषयकव्यक्तचेतनाघटिताध्यवसायात्मकत्वात् । तत्र हेतुमाह-यत्यस्मात् कारणात् , नियमेन-निश्चयेन, संज्ञिनामपि भव्यानामेव भवन्ति, न पुनरभव्यानामपि । तेषां तु कदाचित् कुलाचारवशेन व्यवहारतो व्यक्तमिथ्यात्वे सम्यक्त्वे वा सत्यपि, निश्चयतः सर्वकालमनाभोगमिथ्यात्वमेव भवति । तेन ते चाभव्या व्यावहारिकत्वादिव्यपदेशभाजोऽपि न भवन्ति । तेषां चानादितः सर्वकालं चतृसृष्वपि गतिषु पुनः पुनः परावर्त्तनेन परिभ्रमणात् । एतच्चाने व्यक्तीकरिप्यते । व्यक्तमिथ्यादृशां तु तथाभव्यत्वयोगेन कदाचित् केषाञ्चित् क्रियावादित्वाभिव्यञ्जकं कर्मवादित्वमपि भवति । कर्मवादित्वं च धार्मिकानुष्ठानजन्यो मोक्षो, नान्यथेत्यध्यवसायरूपमेव । यदुक्तं-'य एव कर्मवादी स एव
For Private And Personal Use Only