________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान विधि -
देश्च जातः - समुत्पन्नः, अन्यं - ततोऽपरं श्रीमहावीरं अस्मदीयसमुदायस्याऽऽदिकर्ता श्रीमहावीर इत्येवं 'जंपइ' त्ति कथयति, कमिव १ अन्य पितरमिव दरिद्र निजपितरमपलप्य कंचनं महर्द्धिकं पितरं अस्मदीयः पिता नाऽयं किन्त्वयमेवेत्येवं वैपरीत्येन भाषते । तच्च भाषणं विरुद्धं सर्वलोके गर्हणीयं, एवं च भाषमाणः लज्जा- लोकापवादभीतिजन्या व्रीडा यस्य सोऽलज्जकः । अथवा 'गतसंज्ञः ' - गता नष्टा संज्ञाव्यक्तचेतना यस्मात् स तथा, असंज्ञिकल्प इत्यर्थः । तस्मात् तदीयसमुदायाः असंज्ञित्वात् लज्जारहिता अवसातव्या इति गाथार्थः ॥ ६७ ॥
कोदृश: ? अलज्जकः- न विद्यते
अथ तेषां श्रीमहावीरस्तीर्थकर इति वचनमपि वक्तुमयुक्तमिति दृष्टान्तेन दर्शयति
वीरजिणेणं ठविअं, तित्थमतित्यंति भासगा सव्वे | माया मे वंज्झत्ति अ, वयणविरोहं ण याणंति ॥ ६८ ॥
व्याख्या - वीर जिनेन - श्रीमहावीरेण व्यवस्थापितं तीर्थं दुः प्रसभाऽऽचार्यं यावद् अच्छिन्नमप्यतीर्थं तीर्थं न भवतीति भाषकाः- वक्तारः, सर्वेऽपि जैनाऽऽभासा भवन्ति । ते च 'माता मे वन्ध्येति' वचनविरोधमजानानाः मन्तयाः । यदि च तद्व्यवस्थापितं तीर्थं न भवेत् कथं तर्हि स तीर्थकर, यदि च स तीर्थ
I
.
करः, कथं तर्हि तद्व्यवस्थापितं तीर्थं न भवेत् । अतीर्थव्यव
"
स्थापकत्व तीर्थ करत्वयोर्विरोधादिति गाथार्थः ॥ ६९ ॥
For Private And Personal Use Only