________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
व्याख्यान विधि
तीर्थानभ्युपगमे तीर्थकरस्याप्यनभ्युपगमात् । नहि पुत्रानभ्युपगमे तज्जनकत्वेन पितृत्वाभ्युपगमः सम्भवति । पुत्रेणैव पितृत्वव्यपदेशस्य जायमानत्वात् । एवं च यथा जातेन पुत्रेण देवदत्तस्य पितृत्वपदवी दत्ता, तथा जिनेन व्यवस्थापितेन तीर्थेन जिनस्य तीर्थकरपदवी दत्ता । अत एव कृतकृत्योऽपि भगवान् जिनस्तीर्थ नमस्करोति । यदागमः--'तित्थपणामं काउ' मित्यादि गाथायुग्मं अनन्तरप्रदर्शितं बोध्यम् । किञ्च-तीर्थानभ्युपगमे तीर्थंकरस्याप्यनभ्युपगम एवेत्यत्र युक्तिं 'एएणं सव्वेसिं एगो तित्थंकरो'त्ति गाथाव्याख्यायां वक्ष्याम इति गाथार्थः ।४४।
अथ प्रतिमाऽरेस्तीर्थप्रतिपक्षत्वसूचकं वचनमाह-- तेणं तित्थमतित्थं, अतित्थमवि भासइ सुतित्थंति । तमसच्चं जगपावा, अहिअं पावं जिणिंदुत्तं ॥४५॥
व्याख्या--येन कारणेन लौम्पकस्तीर्थप्रतिपक्षः, तेन कारणेन श्रीमहावीरव्यवस्थापितमच्छिन्नपरम्परागतं ( तीर्थ ) यत्तदोरध्याहारात् यत्तदतीर्थ-तीर्थ न भवतीत्येवं तीर्थस्यातीर्थतया भणनं, अतीर्थमपि-जिनप्रतिमारिसमुदायात्मकं, सुतीर्थ-शोभनं तीर्थमिति भाषते, एवमनृतमसत्यभाषणं जगत्पापादधिकं पापं-कारण कार्योपचारात् अधिकपापकारणं 'जिणिंदुत्तं' जिनेन्द्रेणोक्तम् । तथाहि--'उम्मग्गमग्गसंपट्टियाण साहूण गोयमा ! णणं । संसारो अ अणंतो, होइ अ सम्मग्गणासीणं' ॥१॥ [ गच्छाचारः ] ति वक्ष्यमाणमवसातव्यं यथा
For Private And Personal Use Only