SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् ३६ अथ प्रतिमाऽरातिसमुदायस्य ज्ञानावरणीयदर्शनमोहनीययोः कर्मणोः क्षयोपशमाऽभावेन यत्स्यात्तदाह--- तयभावा सद्दहणं, ण होइ तेणेव तस्स मिच्छत्तं । मिच्छत्ता जिणपडिमा-पडिवक्खो जाव तित्थस्स ॥४४॥ व्याख्या-तदभावादुक्तलक्षणकर्मणोः क्षयोपशमाऽभावेन श्रद्धानमर्थाजजिनप्रतिमाविषयं न भवति । तेनैव तस्य मिथ्यात्वं । मिथ्यात्वाच्च जिनप्रतिमायाः प्रतिपक्षो-वैरी भवति । न केवलं जिनप्रतिमाया एव, यावत् तीर्थस्यापि, यावत्करणात्तीर्थकरादेहणं, तीर्थ-तीर्थकर-जिनप्रतिमादीनामन्योन्यानुविद्धत्वेन सम्बन्धात् । अन्योन्यानुविद्धत्वं चाऽऽराधनमधिकृत्य परस्परमविनाभावित्वेनावसातव्यम् । अत एव तीर्थप्रतिपक्षस्य तीर्थकरप्रतिपक्षत्वस्याऽऽवश्यकत्वात्, तीर्थस्य तीर्थकरपूज्यत्वात् । यदागम: तित्थपणामं काउं, कहेइ साहारणेण सद्देणं । सव्वेसिं सण्णीणं, जोअगणीहारिणा भयवं ।।१।। तप्पुविआ अरिहया, पूइयपया य विणयकम्मं च । कयकिच्चो वि जह कह, कहेइ णमइ तहा तित्थं ॥ ति श्री आवश्यकनियुक्तौ। तीर्थस्य तीर्थकरपूज्यत्वं च सर्वगुणाश्रयत्वेनैव । यदुक्त 'एअंभि पूइयंमि, णस्थि तयं जं न पूइयं होइ । भुवणेवि पूणिज्ज, ण गुणट्ठाणं तओ अन्न' ॥१॥ ति पञ्चाशके। एतेन वयं तीर्थकरं तु मन्यामहे, तीर्थेन किं प्रयोजनमिति निजम तिकल्पनया धाष्यमाश्रिता अपि निरस्ता बोध्याः। For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy