________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्।
१७
अथ पुनरपि प्रकारान्तरेण तीर्थ व्यवस्थापयन्नाह-- अहवा जस्स पमाणं, महाणिसीहं हविज्ज तं तित्थं । हरिभद्दत्तं लिहियं, महाणिसीहस्स आयरिसे ॥१८॥
व्याख्या--अथवेति प्रकारान्तरद्योतने । यस्य महानिशीर्थ-श्रीमहानिशीथसत्रं प्रमाणं, तत्तीर्थ मन्तव्यं । एतच्च हरिभद्रोक्तं-श्रीहरिभद्रसूरिणा भणितं, श्रीमहानिशीथाऽऽदर्श अर्थात् पूर्वाचायैलिखितमित्यक्षरार्थः। भावार्थस्तु यद्यपि गणधरकृते श्रीमहानिशीथसूत्रे श्रीवज्रस्वामिव्यतिकरो नासीत् , परं तथापि उद्देहिकादिखण्डितपत्रेभ्यः प्रवचनहितार्थ यथावबोधमन्योन्यसङ्गत्या श्रीमहानिशीथसूत्रलिखने तस्यैव तृतीयाध्ययने यथा श्रीहरिभद्रसरिणा श्रीवजस्वामिव्यतिकरो लिखितः । तथाहि____ 'एअंतु जं पंचमंगलमहासुअखंधस्स वक्खाणं तं महया पबंधेण अणंतगमपज्जवेहिं सुत्तम्स य पिहब्भूआहिं णिज्जुत्तिभासचुण्णीहिं जहेव अणंतणाणदंसणधरेहिं तित्थगरेहिं वक्खाणिों तहेव समासओ वक्खाणिज्जतं आसी। अह अण्णया कालपरिहाणिदोसेण ताओ णिज्जुत्तिभासचण्णीओ बुच्छिन्नाओ । इओ अ वच्चंतेण कालसमएणं महड्ढिपत्ते पयाणुसारी वयरसामी नामा दुवालसंगसुअहरो समुप्पण्णो। तेणेसो पंचमंगलमहासुअक्खंधस्स उद्धारो मलसुत्तमज्झ लिहिओ। मलसुत्तं पुण सुत्तताए गणहरेहिं अस्थत्ताए अरिहंतेहिं भगवंतेहिं धम्मतित्थगरेहिं तिलोअमहिएहिं वीरजिणिंदेहिं पण्णविति श्रीमहानिशीथे तृतीयाध्ययने। प्रयोजनवशेन लिखितः तथा वृद्धसम्प्रदायात्
For Private And Personal Use Only