SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Main Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagara Granmandir तं च भिक्खू परिन्नाय, वियं तेसु ण मुच्छए । अणुक्कस्से अप्पलीणे, मज्झेण मुणि जावए ॥२॥ अस्य चानन्तरसूत्रेण सहायं संबन्धस्तद्यथा, अनन्तरसूत्रे ऽभिहितं- 'तीर्थिका असुरस्थानेषु किल्बिषा जायन्त' इति, किमिति ? यत एते जिताः परीषहोपसर्गैः, परम्परसूत्र संबन्धस्त्वयम् - आदाविदमभिहितं 'बुध्येत त्रोटयेच्च' ततश्चैतदपि बुध्येत — यथैते पञ्चभूतादिवादिनो गोशालकमतानुसारिणश्च जिताः परीषहोपसर्गेः कामक्रोध लोभमानमोहमदाख्येनारिषङ्घर्गेण चेति, एवमन्यै - रपि सूत्रैः संबन्ध उत्प्रेक्ष्यः । तदेवं कृतसंबन्धस्यास्य सूत्रस्येदानीं व्याख्या प्रतन्यते – 'एत' इति पञ्चभूतैकात्मतञ्जीवतच्छरीरा| दिवादिनः कृतवादिनश्च गोशालकमतानुसारिणस्त्रैराशिकाच 'जिता' अभिभूता रागद्वेषादिभिः शब्दादिविषयैश्व तथा प्रबलम - हामोहोत्थाज्ञानेन च 'भो' इति विनेयामन्त्रणम् एवं वं गृहाण यथैते तीर्थिका असम्यगुपदेशप्रवृत्तत्वान्न कस्यचिच्छरणं भवि| तुमर्हन्ति न कश्चित्रातुं समर्था इत्यर्थः किमित्येवं ?, यतस्ते बाला इव बालाः, यथा शिशवः सदसद्विवेकवैकल्याद्यत्किञ्चनकारिणो भाषिणश्च तथैतेऽपि स्वयमज्ञाः सन्तः परानपि मोहयन्ति, एवम्भूता अपि च सन्तः पण्डितमानिन इति, कचित्पाठो | ' जत्थ बालेऽवसीय 'त्ति 'यत्र' अज्ञाने 'बालः' अज्ञो लग्नः सन्नवसीदति, तत्र ते व्यवस्थिताः यतस्ते न कस्यचित्राणायेति । यच्च | तैर्विरूपमाचरितं तदुत्तरार्द्धेन दर्शयति- ' हित्वा ' त्यक्त्वा, णमिति वाक्यालङ्कारे, पूर्वसंयोगो - धनधान्यस्वजनादिभिः संयोगस्तं | त्यक्त्वा किल वयं निःसङ्गाः प्रव्रजिता इत्युत्थाय पुनः सिता - बद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थाः तेषां कृत्यं करणीयं पचनपाचन कण्डनपेषणादिको भूतोपमर्दकारी व्यापारस्तस्योपदेशस्तं गच्छन्तीति कृत्योपदेशगाः कृत्योपदेशका वा, यदिवा – 'सिया' | इति आर्षखाद्बहुवचनेन व्याख्यायते ' स्युः ' भवेयुः कृत्यं - कर्तव्यं सावद्यानुष्ठानं तत्प्रधानाः कृत्या–गृहस्थास्तेषामुपदेशः– For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy