________________
Shri Mahar
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarria mandir
सूत्रकृताङ्गं शीलाङ्काचायत्तियुतं
पत्तकर्मपाशावशापि(पाशि)ताः पौनःपुन्येन नरकादियातनास्थानेघृत्पद्यन्ते, तथाहि-नेन्द्रियैरनियमितैरशेषद्वन्द्वप्रच्युतिलक्षणा सिद्धिरवाप्यते, याऽप्यणिमाद्यष्टगुणलक्षणैहिकी सिद्धिरभिधीयते सापि मुग्धजनप्रतारणाय दम्भकल्पैवेति, याऽपि च तेषां बालतपोऽनुष्ठानादिना खर्गावाप्तिः साऽप्येवंप्राया भवतीति दर्शयति–'कल्पकालं' प्रभूतकालम् 'उत्पद्यन्ते' संभवन्ति आसुराः| असुरस्थानोत्पन्ना नागकुमारादयः, तत्रापि न प्रधानाः, किं तर्हि ?-'किल्बिषिकाः' अधमाः प्रेष्यभूता अल्पर्धयोऽल्पभोगाः खल्पायुःसामर्थ्याधुपेताश्च भवन्तीति । इति उद्देशकपरिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥१६ ।। ७५ ॥ इति समयाख्याध्ययनस्य तृतीयोद्देशकः समाप्तः॥
१ समया० उद्देशः४ कृत्योपदेशवि०
॥४७॥
-
roccoon--
अथ प्रथमाध्ययने चतुर्थ उद्देशकः प्रारभ्यते ॥ । उक्तस्तृतीयोद्देशकः, अधुना चतुर्थः समारभ्यते, अस्य चायमभिसंबन्धः-अनन्तरोद्देशकेऽध्ययनार्थखात्वपरसमयवक्तव्यतोतेहापि सैवाभिधीयते, अथवाऽनन्तरोद्देशके तीथिकानां कुत्सिताचारखमुक्तमिहापि तदेवाभिधीयते, तदनेन संबन्धेनाऽऽयातस्यास्योद्देशकस्योपक्रमादीनि चखार्यनुयोगद्वाराण्यभिधाय मूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
एते जिया भो ! न सरणं, बोला पंडियमाणिणो। हिच्चा णं पुवसंजोगं, सिया किच्चोवएसगा ॥१॥ १ तायात प्र. २ जत्थ बालेऽवसीय प्र.।
॥४७॥
For Private And Personal