SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ Shri Mahav www.kobatirth.org a nmandir esteeeeeeeeeeeeeeo a dhana Kendra Acharya Shri Kailashsag विपाकानुभवेन वेदनं, तच्चेह त्रसनाम प्रत्येकनामेत्यादिकं नामकर्माभ्युपगतं भवति, त्रसबेन यत्परिबद्धमायुष्कं तद्यदोदयप्राप्त भवति, तदा प्रससंभारकृतेन कर्मणा वसा इति व्यपदिश्यन्ते, न तदा कथञ्चित्स्थावरखव्यपदेशः, यदाच तदायुः परिक्षीणं भवति, णमिति वाक्यालङ्कारे, त्रसकायस्थितिकं च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः सातिरेकसहस्रद्वयसागरो| पमपरिमाण, तदा ततस्त्रसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरखेन प्रत्यायान्ति, स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तत्रोत्पद्यन्ते, स्थावरादिनाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सह चरितानि सर्वात्मना सर्व परित्यज्य स्थावरखेनोदयं यान्ति इति, एवं च व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसका|| यप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्ग इति ? । किंचान्यत्-थावराज्यं च णमित्यादि, यदा तदपि स्थावरायुष्कं परि-18 क्षीणं भवति तथा स्थावरकायस्थितिव, सा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोऽनन्तकालमसंख्येयाः पुद्गलपरावर्ता इति, ततस्तत्कायस्थि| तेरभावात्तदायुष्कं परित्यज्य 'भूयः पुनरपि पारलौकिकलेन स्थावरकायस्थितेरभावात् त्रसबेन सामर्थ्यात्प्रत्यायान्ति, तेषां च त्रसानांमन्वर्थिकान्यभिधानान्यभिधित्सुराह-'ते पाणावी त्यादि, ते त्रससंभारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते, तथा विशेषतः 'त्रस भयचलनयोरिति धात्वर्थानुगमाद्भयचलनाभ्यामुपपेतास्त्रसा अप्युच्यन्ते, तथा महान कायो येषां ते महाकायाः योजनलक्षप्रमाणशरीरविकुर्वणात् , तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिं| शत्सागरोपमायुष्कसद्भावात् , ततस्त्रसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं, न तु स्थावरकायत्वेन व्यवस्थितानाम|पीति । यस्तु नागरकदृष्टान्तो भवतोपन्यस्तः असावपि दृष्टान्तदार्शन्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलवासित्वमावि सूत्रकृ. ७० For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy