________________
Shri Ma
h
Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassage
mandir
गे यं तस्स तन्निमित्तो बन्धो सुहुमोवि देसिओ समए । अणवज्जो उ पयोगेण सबभावेण सो जम्हा ॥२॥" स्वमान्तिकैऽप्यशुद्धचित्तसद्भावादीषद्वन्धो भवत्येव, स च भवताऽप्यभ्युपगत एव 'अव्यक्तं तत्सावद्य'मित्यनेनेति । तदेवं मनसोऽपि क्लिष्टस्यैकस्यैव व्यापारे बन्धसद्भावात यदुक्तं भवता 'प्राणी प्राणिज्ञान'मित्यादि तत्सर्व प्लवत इति, यदप्युक्तं-'पुत्रं पिता समारभ्येत्यादि तदप्यनालोचिताभिधानं, यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत्तावन्न कश्चिद्वयापादयति, एवंभूतचित्तपरिणतेश्च कथमसंक्लिष्टता ?, चित्तसंक्लेशे चावश्यंभावी कर्मबन्ध इत्युभयोस्संवादोजेति । यदपि च तैः कचिदुच्यते-यथा 'परव्यापादितपिशितभक्षणे परहस्ताऽऽकृष्टाङ्गारदाहाभाववन्न दोष' इति, तदपि उन्मत्तालपितवदनाकर्णनीयं, यतः परव्यापादिते पिशितभ-| क्षणेऽनुमतिरप्रतिहता, तस्याश्च कर्मबन्ध इति, तथा चान्यैरप्यभिहितम्-"अनुमन्ता विशसिता, संहर्ता क्रयविक्रयी। संस्कर्ता चोपभोक्ता च, घातकश्चाष्ट घातकाः॥१॥" यच्च कृतकारितानुमतिरूपमादानत्रयं तैरभिहितं तज्जैनेन्द्रमतलवाखादनमेव तैर
कारीति । तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिदमिति ॥ २९ ॥ अधुनैशतेषां क्रियावादिनामनर्थपरम्परां दर्शयितुमाह-'इत्येताभिः' पूर्वोक्ताभिश्चतुर्विधं कर्म नोपचयं यातीति 'दृष्टिभिः' अभ्यु
पगमैस्ते वादिनः 'सातगौरव नि:श्रिताः' सुखशीलतायामासक्ता यत्किञ्चनकारिणो यथालब्धभोजिनश्च संसारोद्धरणसमर्थ 'शरणम्' इदमस्मदीयं दर्शनम् 'इति' एवं मन्यमाना विपरीतानुष्ठानतया 'सेवन्ते' कुर्वते 'पापम् अवद्यम्, एवं वतिनोऽपि |सन्तो जना इव जनाः प्राकृतपुरुषसदृशा इत्यर्थः ॥३०॥ अस्यैवार्थस्योपदर्शकं दृष्टान्तमाह-आ-समन्तात्स्रवति तच्छीला वा
१ न च तस्य तन्निमित्तो बन्धः सक्ष्मोऽपि दिष्टः समये । अनवद्यस्त प्रयोगेण सर्वभावेन स यस्मात ॥ २ ॥
For Private And Personal