________________
Shri
Aradhana Kendra
www.kcbatirth.org
Acharya Swi Ksilasto
a mmense
पूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं
१समयाउद्देशः २ | कर्मचयाभाववादिफलं
॥३९॥
एवं तु समणा एगे, मिच्छदिट्ठी अणारिया । संसारपारकंखी ते, संसारं अणुपरियति ॥ ३२ ॥ । (गाथा॥५९॥) तिबेमि । इति प्रथमाध्ययने द्वितीयोद्देशकः॥
ये हि कुतश्चिन्निमित्तात् 'मनसा' अन्तःकरणेन 'प्रादुष्यन्ति' प्रद्वेषमुपयान्ति तेषां वधपरिणतानां शुद्धं चित्तं न विद्यते, तदेवं यत्तैरभिहितं यथा केवलमनःप्रद्वेषेऽपि 'अनवद्य' कर्मोपचयाभाव इति, तत् तेषाम् 'अतथ्यम्' असदाभिधायिख, | यतो न ते संवृतचारिणो, मनसोऽशुद्धवात् , तथाहि-कर्मोपचये कर्तव्ये मन एव प्रधानं कारणं, यतस्तैरपि मनोरहितकेवलकायव्यापारे कर्मोपचयाभावोऽभिहितः, ततश्च यत् यस्मिन् सति भवत्यसति तु न भवति तत्तस्य प्रधानं कारणमिति, ननु तस्यापि कायचेष्टारहितस्याकारणवमुक्तं, सत्यमुक्तम् , अयुक्तं तूक्तं, यतो भवतैव ‘एवं भावशुद्धथा निर्वाणमभिगच्छतीति भणता मनस एवैकस्य प्राधान्यमभ्यधायि, तथाऽन्यदप्यभिहितं-"चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिमुक्तं, भवान्त इति कथ्यते ॥१॥" तथाऽन्यैरप्यभिहितं-"मतिविभव ! नमस्ते यत्समवेपि पुंसां, परिणमसि शुभांशैः कल्मषांशैस्वमेव । नरकनगरवर्ती प्रस्थिताः कष्टमेके, उपचितशुभशक्त्या सूर्यसंभेदिनोऽन्ये ॥१॥" तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति, तथैर्यापथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव, अथोपयुक्तो याति ततोऽप्रमत्तलादबन्धक एव, तथा चोक्तम्-"उच्चालियंमि पाए इरियासमियस्स संकमहाए । वावजेज कुलिंगी मरेज तं जोगमासज्ज ॥१॥ १ उच्चालिते पादे ईर्यासमितेन संक्रमार्थाय । व्यापयेत कलिङ्गी म्रियेत तं योगमासाद्य ॥१॥
For Private And Personal