SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Man Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृ चियुतं ॥ ३८ ॥ www.kobatirth.org Acharya Shri Kailashsagarenmandir खुरवधारणे, अव्यक्तमेव, स्पष्टविपाकानुभवाभावात्, तदेवमव्यक्तं सहावद्येन --गर्मेण वर्तते तत्परिज्ञेोपचितादिकर्मेति ॥ २५ ॥ | ननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशङ्कयाह संति तउ आयाणा, जेहिं कीरइ पावगं । अभिकम्मा य पेसा य, मणसा अणुजाणिया ॥२६॥ 'सन्ति' विद्यन्ते अमूनि त्रीणि आदीयते - स्वीक्रियते अमीभिः कर्मेत्यादानानि, एतदेव दर्शयति — यैरादानैः 'क्रियते ' विधी - यते निष्पाद्यते 'पापकं ' कल्मषं, तानि चामूनि, तद्यथा - 'अभिक्रम्ये 'ति आभिमुख्येन वध्यं प्राणिनं क्रान्ता - तद्वाताभिमुखं चित्तं विधाय यत्र स्वत एव प्राणिनं व्यापादयति तदेकं कर्मादानं, तथाऽपरं च प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिव्यापादनं तद्वितीयं कर्मादानमिति, तथाऽपरं व्यापादयन्तं मनसाऽनुजानीत इत्येतत्तृतीयं कर्मादानं, परिज्ञोपचितादस्यायं भेदः -- तत्र | केवलं मनसा चिन्तनमिह वपरेण व्यापाद्यमाने प्राणिन्यनुमोदन मिति ॥ २६ ॥ तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिघाते क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणातिपातश्च तत्रैव कर्मोपचयो नान्यत्रेति दर्शयितुमाह एते उतर आयाणा, जेहिं कीरइ पावगं । एवं भावविसोहीए, निव्वाणमभिगच्छइ ॥ २७ ॥ तुरवधारणे, 'एतान्येव' पूर्वोक्तानि त्रीणि व्यस्तानि समस्तानि वा आदानानि यैर्दुष्टाध्यवसायसन्यपेक्षैः पापकं कर्मोपचीयत इति, एवं च स्थिते यत्र कृतकारितानुमतयः प्राणिन्यपरोपणं प्रति न विद्यन्ते तथा 'भावविशुद्ध्या' अरक्तद्विष्टबुध्ध्या प्रवर्तमानस्य | सत्यपि प्राणातिपाते केवलेन मनसा कायेन वा मनोऽभिसंधिरहितेनोभयेन वा विशुद्धबुद्धेर्न कर्मोपचयः, तदभावाच्च 'निर्वाण' For Private And Personal १ समया० उद्देशः २ चतुर्विध कमेचया भावः 1136 11
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy