________________
Shri Maha Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagars mandir
छेदन भेदनादिके व्यापारे वर्तते न तस्यावंद्यं, तस्य कर्मोपचयो न भवतीत्यर्थः, तथा 'अबुध:' अजानानः कार्यव्यापारमात्रेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति, अनेन च श्लोकार्धेन यदुक्तं निर्युक्तिकृता यथा - 'चतुर्विधं कर्म नोपचीयते भिक्षुसमय' इति, तत्र परिज्ञोपचितमविज्ञोपचिताख्यं भेदद्वयं साक्षादुपात्तं, शेषं वीर्यापथस्वप्नान्तिकभेदद्वयं चशब्देनोपात्तं, तत्रेरणमीर्या - गमनं तत्संबद्धः पन्था ईर्यापथस्तत्प्रत्ययं कर्मेर्यापथम् एतदुक्तं भवति – पथि गच्छतो यथाकथञ्चिदनभिसंधेर्यत्प्रा| णिव्यापादनं भवति तेन कर्मणश्चयो न भवति, तथा स्वप्नान्तिकमिति - स्वप्न एव लोकोक्त्या स्वप्नान्तः स विद्यते यस्य तत्खशान्तिकं, तदपि न कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्त्यभावस्तथा कर्मणोऽपीति, कथं तर्हि तेषां कर्मोपचयो भवतीति ?, उच्यते, यद्यसौ हन्यमानः प्राणी भवति हन्तु यदि प्राणीत्येवं ज्ञानमुत्पद्यते तथैनं हन्मीत्येवं च यदि बुद्धिः प्रादुष्ष्याद् एतेषु च सत्सु यदि कायचेष्टा प्रवर्तते तस्यामपि यद्यसौ प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति, एषामन्यतराभावेऽपि न हिंसा, न च कर्मचयः । अत्र च पञ्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकोऽपरेष्वेकत्रिंशत्स्वहिंसकः, तथा चोक्तम्- " प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥ १ ॥" किमेकान्तेनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव १, भवति काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चार्धमाह - 'पुट्ठोत्ति | तेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोत्थेन वाऽविज्ञोपचितेनेर्यापथेन स्वप्नान्तिकेन च चतुर्विधेनापि कर्मणा 'स्पृष्ट' ईषच्छ्रतः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति, न तस्याधिको विपाकोऽस्ति, कुड्यापतित सिकतामुष्टिवत्स्पर्शानन्तरमेव परिशटतीत्यर्थः, अत एव तस्य चयाभावोऽभिधीयते, न पुनरत्यन्ताभाव इति । एवं च कृत्वा तद् 'अव्यक्तम्' अपरिस्फुटं,
For Private And Personal