________________
Shri Mahavaradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaganmandir
यथा वणिक् कश्चिद् 'उदयार्थी' लाभार्थी 'पण्यं' व्यवहारयोग्यं भाण्डं कर्पूरागरुकस्तूरिकाम्बरादिकं गृहीला देशान्तरं गला विक्रीणाति, तथा 'आयस्स' लाभस्य 'हेतोः कारणान्महाजनसङ्गं विधत्ते, तदुपमोऽयमपि भवत्तीर्थकरः श्रमणो ज्ञातपुत्र इत्येवं 'मे' मम मतिर्भवति, वितक-मीमांसा वेति ॥ १९ ॥ एवमुक्ते गोशालकेनाईक आह- 'नवं न कुज्जा' इत्यादि, योग्यं भवता दृष्टान्त प्रदर्शितः स किं सर्वसाधर्म्येणोत देशतः ?, यदि देशतस्ततो न नः क्षतिमावहति, यतो वणिग्वत् यत्रैवोपचयं पश्यति | तत्रैव क्रियां व्यापारयति न यथाकथञ्चिदित्येतावता साधर्म्यमस्त्येव, अथ सर्वसाधर्म्येण तन्न युज्यते, यतो भगवान् विदितवेद्यतया सावद्यानुष्ठानरहितो 'नव' प्रत्यग्रं कर्म न कुर्यात्, तथा 'विधूनयति' अपनयति पुरातनं यद्भवोपग्राहि कर्म बद्धं, तथा | त्यक्त्वा 'अमतिं' विमतिं ' त्रायी' भगवान् सर्वस्य परित्राणशीलो, विमतिपरित्यागेन चैवंभूत एव भवतीति भावः, तायी वा मोक्षं प्रति, अयवयमयपयचयतयणय गतावित्यस्य रूपं, स एव - भगवानेवाह-यथा विमतिपरित्यागेन मोक्षगमनशीलो भवतीत्येतावता च संदर्भेण ब्रह्मणो - मोक्षस्य व्रतं ब्रह्मव्रतमित्येतदुक्तं, तस्मिंश्वोक्ते तदर्थे चानुष्ठाने क्रियमाणे तस्योदयस्यार्थीलाभार्थी श्रमण इति ब्रवीम्यहमिति ॥ २० ॥ न चैवंभूता वणिज इत्येतदार्द्रककुमारो दर्शयितुमाह - ते हि वणिजश्वतुर्दशप्रकारमपि 'भूतग्रामं' जन्तुसमूहं 'समारभन्ते' तदुपमर्दिकाः क्रियाः प्रवर्त्तयन्ति क्रयविक्रयार्थं शकटयानवाहनोष्ट्रमण्डलिकादिभिरनुष्ठानैरिति, तथा 'परिग्रह' द्विपदचतुष्पदधनधान्यादिकं 'ममीकुर्वन्ति' ममेदमित्येवं व्यवस्थापयन्ति, ते | हि वणिजो 'ज्ञातिभिः' खजनैः सह यः संयोगस्तम् 'अविप्रहाय' अपरित्यज्य 'आयस्य' लाभस्य 'हेतो:' निमित्तादपरेण सार्द्ध 'सङ्गं' संबन्धं कुर्वन्ति । भगवांस्तु षड्जीवरक्षापरोऽपरिग्रहस्त्यक्तस्वजनपक्षः सर्वत्र प्रतिबद्धो धर्माऽऽयमन्वेषयन् गखापि
For Private And Personal