SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcharitm.org Acharya Shri Kailashsagar आर्द्रका ध्ययन. सूत्रकृताङ्गे धर्मदेशनां विधत्ते, अतो भगवतो वणिग्भिः सार्धं न सर्वसाधर्म्यमस्तीति ॥ २१ ॥ पुनरपि वणिजा दोषमुद्भावयन्नाह- २ श्रुतस्क- 'वित्तेसिणो' इत्यादि, वित्तं-द्रव्यं तदन्वेष्टुं शीलं येषां ते वित्तैषिणः, तथा 'मैथुने' स्त्रीसंपर्के 'संप्रगाढा' अध्युपपन्नाः, न्धे शीला- | तथा ते 'भोजनार्थम् ' आहारार्थ वणिज इतश्चेतश्च व्रजन्ति वदन्ति वा । तांस्तु वणिजो वयमेवं बमो-यथैते कामेष्वध्यपकीयावृत्तिः पन्ना-गृद्धाः, अनार्यकर्मकारिखादनार्या रसेषु च-सातागौरवादिषु गृद्धा-मूर्छिताः, न त्वेवंभूता भगवन्तोऽर्हन्तः, कथं तेषां तैः। ॥३९५॥ सह साधर्म्यमिति ?, दूरत एव निरस्तैषा कथेति ॥ २२ ॥ किंचान्यत्-'आरम्भं सावद्यानुष्ठानं च तथा परिग्रहं च 'अव्यसत्सृज्य' अपरित्यज्य तमिन्नेवारम्भे क्रयविक्रयपचनपाचनादिके तथा परिग्रहे च-धनधान्यहिरण्यसुवर्णद्विपदचतष्पदादिक | निश्चयेन श्रिता-अवबद्धा नि:श्रिता वणिजो भवन्ति, तथाऽऽत्मैव दण्डयतीति दण्डो येषां ते भवन्त्यात्मदण्डा असदाचारप्रवत्तेरिति. भावोऽपि चैषां वणिजां परिग्रहारम्भवतां स उदयो लाभो यदर्थ ते प्रवृत्ताः यं च खं लाभं वदसि स तेषां 'चतुरन्तः' चतुर्गतिको यः संसारोऽनन्तस्तस्मै-तदर्थं भवतीति, तथा दुःखाय च भवतीति, न चेहासावेकान्तेन तत्प्रवृत्तस्यापि भवतीति ॥२३॥ एतदेव दर्शयितुमाह-'णेगंतिणचंति इत्यादि, एकान्तेन भवतीत्येकान्तिकः, तथा न, लाभार्थ प्रवृत्तस्य विपर्ययस्यापि दर्शनात , तथा नाप्यात्यन्तिकः सर्वकालभावी, तत्क्षयदर्शनात् , स तेषां उदयो-लाभोज्नैकान्तिकोऽनात्यन्तिकश्चेत्येवं तद्विदो वदन्ति । तौ च द्वावपि भावौ विगतगुणोदयौ भवतः, एतदुक्तं भवति-किं तेनोदयेन लाभरूपेण योऽनैकान्तिकोऽनात्यन्तिकश्च, | यश्चानथायेति । यश्च भगवतः 'से' तस्य दिव्यज्ञानप्राप्तिलक्षणः 'उदयो' लाभो यो वा धर्मदेशनावाप्तनिर्जरालक्षणः स च सादिरनन्तश्च, तमेवंभूतमुदयं प्राप्तो भगवानन्येषामपि तथाभूतमेवोदयं 'साधयति' कथयति श्लाघते वा। किंभूतो भगवान् ?-'तायी ॥३९५॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy