SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ Shri Mahavis Vain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जातिसरणं, चिन्तितं च तेन यथा-ममाभयकुमारेण महानुपकारोकारि सद्धर्मप्रतिबोधत इति, ततोऽसावाकः संजातजातिम| रणोचिन्तयत्-यस्य मम देवलोकभोगैयेथेप्सितं संपद्यमानस्तृप्ति भूत् तस्यामीभिस्तुच्छैानुषैः स्वल्पकालीनः कामभोगैस्तृप्तिर्भ|विष्यतीति कुतस्त्यमिति, एतत्परिगणय्य निर्विण्णकामभोगो यथोचितं परिभोगमकुर्वन् राज्ञा संजातभयेन मा कचिद्यास्पति |अतः पञ्चभिः शतै राजपुत्राणां रक्षयितुमारेभे, आर्द्रककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानाश्वेन प्रपलायितः । ततश्च प्रत्र ज्यां गृह्णन् देवतया सोपसर्ग भवतोऽद्यापीति भणिखा निवारितोऽप्यसावाको राज्यं तावन्न करोति कोऽन्यो मां विहाय प्रव्रज्यां & ग्रहीष्यतीत्यभिसंधाय तां देवतामवगणय्य प्रव्रजितः। विहरन्नन्यदाऽन्यतरप्रतिमाप्रतिपन्नः कायोत्सर्गव्यवस्थितो वसन्तपुरे तया देव लोकच्युतया श्रेष्ठिदुहित्राऽपरदारिकामध्यगतया रमन्त्यै(ममाणय)ष मम भत्रेत्येवमुक्ते सत्यनन्तरमेव तत्सन्निहितदेवतया त्रयोदशकोटिपरिमाणा शोभनं वृतमनयेति मणिला हिरण्यवृष्टिर्मुक्ता, तां च हिरण्यवृष्टिं राजा गृह्णन् देवतया सद्युत्थानतो विधृतोऽभिहितं च तया यथा-एतद्धिरण्यजातमस्या दारिकायाः नान्यस्य कस्यचिदित्यतस्तत्पित्रा सर्व संगोपितम् , आर्द्रककुमारोऽप्यनुकूलोपसर्ग इतिमखाऽऽश्वेवान्यत्र गतः, गच्छति च काले दारिकाया वरकाः समागच्छन्ति, पृष्टौ च पितरौ तया-किमेषामागमनप्रयोजनं , कथितं च ताभ्यां यथैते तव वरका इति, ततस्तयोक्तं-तात ! सकृत्कन्याः प्रदीयन्ते नानेकशः, दत्ता चाहं तसै यत्संबन्धि हिरण्यजातं भवद्भिगृहीतं, ततः सा पित्रामाणि-किं त्वं तं जानीषे ?, तयोक्तं-तत्पादगताभिज्ञानदर्शनतो जानामीति, तदेवमसौ | तत्परिज्ञानार्थ सर्वस्य भिक्षार्थिनो भिक्षां दापयितुं निरूपिता, ततो द्वादशभिर्वषैर्गतैः कदाचिच्चासौ भवितव्यतानियोगेन सत्रैव विहरन् समायातः, प्रत्यभिज्ञातश्च तया तत्पादचिह्नदर्शनतः, ततोऽसौ दारिका सपरिवारा तत्पृष्ठतो जगाम, आर्द्रककुमारोपि For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy