________________
Shri Manex Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
प्लुत्य गच्छति । न योजनमसौ गन्तुं, शक्तोऽभ्यासशतैरपि ॥१॥" इति, दृष्टान्तदाान्तिकयोरसाम्यात् , तथाहि-ताप्यमानं जलं प्रतिक्षणं क्षयं गच्छेत् प्रजा तु विवर्द्धते, यदिवा प्लोषोपलब्धेरव्याहतमग्नित्वं, तथा प्लवनविषयेऽपि पूर्वमर्यादाया अनतिक्रमाद्योजनोत्प्लवनाभावः, तत्परित्यागे चोत्तरोत्तरं वृक्ष्या प्रज्ञाप्रकर्षगमनवद्योजनशतमपि गच्छेदित्यतो दृष्टान्तदाान्तिकयोरसाम्यादेतन्नाशङ्कनीयमिति स्थितम् , प्रज्ञावृद्धश्च बाधकप्रमाणाभावादस्ति सर्वज्ञत्वप्राप्तिरिति । यदिवा अञ्जनभृतसमुद्कदृष्टान्तेन जीवाकुलत्वाज्जगतो हिंसाया दुर्निवारत्वात्सिद्ध्यभावः, तथा चोक्तम्-"जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ? ॥१॥"इत्यादि, तदेवं सर्वस्यैव हिंसकत्वात्सिद्ध्यभाव इति, तदेतदयुक्तं, तथाहि-सदोपयुक्तस्य | पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनो द्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य | | कदाचिद्रव्यतः प्राणिव्यपरोपणेऽपि तत्कृतबन्धाभावः, सर्वथा तस्यानवद्यत्वात् , तथा चोक्तम्-"उच्चालियंमि पाए," इत्यादि प्रतीतं, । तदेवं कर्मबन्धाभावात्सिद्धेः सद्भावोऽव्याहतः, सामग्र्यभावाद सिद्धिसद्भावोऽपीति ॥ २५ ॥ साम्प्रतं सिद्धानां स्थाननिरूपणा-18 | याह-'णत्थि सिद्धी'त्यादि, सिद्धेः-अशेषकर्मच्युतिलक्षणाया निजं स्थानं-ईषत्प्राग्भाराख्यं व्यवहारतो निश्चयतस्तु तदुपरि 3 योजनक्रोशषड्भागः, तत्प्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञां नो निवेशयेत, यतो बाधकप्रमाणाभावात्साधकस्य चाग-18 | मस्य सद्भावात्तत्सत्ता दुर्निवारेति । अपिच-अपगताशेषकल्मषाणां सिद्धानां केनचिद्विशिष्टेन स्थानेन भाव्यं, तच्चतुर्दशरज्ज्वात्मकस्य लोकस्याग्रभूतं द्रष्टव्यं, न च शक्यते वक्तुमाकाशवत्सर्वव्यापिनः सिद्धा इति, यतो लोकालोकव्याप्याकाशं, न चालोकेऽपरद्रव्यस संभवः, तस्याकाशमात्ररूपत्वात् , लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः, तथाहि-सिद्धावस्थायां तेषां व्यापि-10
For Private And Personal