________________
Shri Mahavir
ledhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः
॥३८॥
'Deceaeseseeeeeeeeeeeeeeeeee
द्विषष्टियोनिलक्षप्रमाणाः सर्वेऽप्येकविधा एव, तथा मनुष्या अपि कर्मभूमिजाकर्मभूमिजान्तरद्वीपकसंमूर्छनजात्मकभेदमनात्यैक-18
५आचार| विधत्वेनैवाश्रिताः, तथा देवा अपि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्ना एकविधत्वेनैव गृहीताः, तदेवं सामान्यवि
श्रुताध्य. | शेषाश्रयणाचातुर्विध्यं संसारस्य व्यवस्थितं नैकविधत्वं, संसारवैचित्र्यदर्शनात , नाप्यनेकविधत्वं सर्वेषां नारकादीनां खजात्यनतिक्रमादिति ॥ २३ ॥ २४ ॥ सर्वभावानां सप्रतिपक्षत्वात्संसारसद्भावे सति अवश्यं तद्विमुक्तिलक्षणया सिद्ध्यापि भवितव्यमित्यतोऽधुना सप्रतिपक्षां सिद्धि दर्शयितुमाह
णत्थि सिद्धी असिद्धी वा, णेवं सन्नं निवेसए। अत्थि सिद्धी असिद्धी वा, एवं सन्नं निवेसए ॥२५॥ णत्थि सिद्धी नियं ठाणं, णेवं सन्नं निवेसए । अत्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए ॥ २६ ॥ सूत्रं । सिद्धिः अशेषकर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेद्, अपि त्वसिद्धेः-संसारलक्षणायाश्चातुर्विध्येनानन्तरमेव प्रसाधिताया अविगानेनास्तित्वं प्रसिद्धं, तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिर्वेत्येवं संज्ञां 8 | निवेशयेदिति स्थितम् , इदमुक्तं भवति-सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य सद्भावात्कर्मक्षयस्य च पीडोपशमादिना:ध्यक्षेण दर्शनादतः कस्यचिदात्यन्तिककर्महानिसिद्धरस्ति सिद्धिरिति, तथा चोक्तम्- "दोषावरणयोहानिनिःशेषाऽस्त्यतिशायिनी। कचिद्यथा खहेतुभ्यो, बहिरन्तर्मलक्षयः ॥१॥"इत्यादि, एवं सर्वज्ञसद्भावोऽपि संभवानुमानाद्रष्टव्यः, तथाहि-अभ्यस्यमानायाः
T ॥३८॥ प्रज्ञाया व्याकरणादि ना शास्त्रसंस्कारेणोत्तरोत्तरवृद्ध्या प्रज्ञातिशयो दृष्टा, तत्र कस्यचिदत्यन्तातिशयप्राप्तेः सर्वज्ञत्वं स्यादिति संभ|वानुमानं, न चैतदाशङ्कनीयं, तद्यथा-ताप्यमानमुदकमत्यन्तोष्णतामियान्नाग्निसाद्भवेत , तथा 'दशहस्तान्तरं व्योनि यो नामो
Caeeeeeeeeeeeeeeee
For Private And Personal