________________
Shri Mahavira Madhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagaranmandir
आहोखिद्विद्यमानं १, न तावदविद्यमानमतिप्रसङ्गाद्, अभ्युपेतागमलोपाद्वा, अथ विद्यमानमेव सिद्धं तर्हि जीवखम् । तथाऽऽत्माद्वै| तवाद्यपि वाच्यः - यदि पुरुषमात्रमेवेदं सर्वं कथं घटपटादिषु चैतन्यं नोपलभ्यते, तथा तदैक्येऽभेदनिबन्धनानां पक्षहेतुदृष्टान्ता| नामभावात्साध्यसाधनाभावः, तस्मान्नैकान्तेन जीवाजीवयोरभावः, अपितु सर्वपदार्थानां स्याद्वादाश्रयणाज्जीवः स्याजीवः स्यादजीवः | अजीवोऽपि च स्यादजीवः स्याज्जीव इति एतच्च स्याद्वादाश्रयणं जीवपुद्गलयोरन्योऽन्यानुगतयोः शरीरप्रत्यक्षतयाऽध्यक्षेणैवोपलभाद्रष्टव्यमिति ॥ १३ ॥ जीवास्तिखे च सिद्धे तेन्निबन्धनयोः सदसत्क्रियाद्वारायातयोर्धर्माधर्मयोरस्तित्वप्रतिपादनायाहणत्थि धम्मे अधम्मे वा, णेवं सन्नं निवेसए । अस्थि धम्मे अधम्मे वा, एवं सन्नं निवेस ॥ १४ ॥ णत्थि बंधे व मोक्खे वा, णेवं सन्नं निवेसए । अत्थि बंधे व मोक्खे वा, एवं सन्नं निवेस ॥ १५ ॥ ( सू० ) 'धर्मः' श्रुतचारित्रात्मको जीवस्यात्मपरिणामः कर्मक्षयकारणम्, एवमधर्मोऽपि मिथ्यात्वाविरतिप्रमादकषाययोगरूपः कर्मबन्धकारणमात्मपरिणाम एव, तावेवंभूतौ धर्माधर्मो कालखभावनियतीश्वरादिमतेन न विद्येते इत्येवं संज्ञां नो निवेशयेत् — कालादय | एवास्य सर्वस्य जगद्वैचित्र्यस्य धर्माधर्मव्यतिरेकेणैकान्ततः कारणमित्येवमभिप्रायं न कुर्याद्, यतः त एवैकका न कारणमपि तु समुदिता एवेति, तथा चोक्तम् - "नं हि कालादीहिंतो केवलएहिंतो जायए किंचि । इह मुग्गरंधणाइवि ता सवे | समुदिया हेऊ ॥ १ ॥ इत्यादि । यतो धर्माधर्मान्तरेण संसारवैचित्र्यं न घटामियर्त्यतोऽस्ति धर्मः सम्यग्दर्शनादिकोऽधर्मश्च
१ अभेदसिद्धिनिबन्धनानां । भेदनिबन्धनानामिति चेद् भेदजानामित्यर्थः । २ नैव कालादिभ्यः केवलेभ्यो जायते किंश्चिदपि । इह मुद्गरन्धनाद्यपि ततः सर्वे समुदिता हेतुः ॥ १ ॥ ३ नारकत्वादिविशिष्टजीवनिबन्धनयोः बहुव्रीहिर्वा ।
For Private And Personal