________________
Shri Mahavidy
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
foeer290828892e2e2eoa
निवेशयेदिति, अनेनाविशिष्टं वस्वस्तिवं प्रसाधितम् , इदानीं तस्यैव वस्तुन ईषद्विशेषितखेन लोकालोकरूपतयाऽस्तिवं प्रसाधयन्नाह
णस्थि लोए अलोए वा, णेवं सन्नं निवेसए । अत्थि लोए अलोए वा, एवं सन्नं निवेसए ॥१२॥ णत्थि जीवा अजीवा वा, णेवं सन्नं निवेसए। अस्थि जीवा अजीवा वा, एवं सन्नं निवेसए ॥ १३ ॥ (सू०) 'लोकः' चतुर्दशरज्ज्वात्मको धर्माधर्माकाशादिपश्चास्तिकायात्मको वा स नास्तीत्येवं संज्ञां नो निवेशयेत् । तथाऽऽकाशास्तिकायमात्रकस्त्वलोकः स च न विद्यते एवेत्येवं संज्ञां नो निवेशयेत् । तदभावप्रतिपत्तिनिबन्धनं खिद, तद्यथा-प्रतिभासमानं वस्ववयवद्वारेण वा प्रतिभासेतावयविद्वारेण वा ?, तत्र न तावदवयवद्वारेण प्रतिभासनमुत्पद्यते, निरंशपरमाणनां प्रतिभासनासंभवात् , सर्वारातीयभागस्य च परमाण्वात्मकखात्तेषां च छद्मस्थविज्ञानेन द्रष्टुमशक्यखात् , तथा चोक्तम्-"यावदृश्यं परस्तावद्भामः स च न दृश्यते । निरंशस्य च भागस्य, नास्ति छद्मस्थदर्शनम् ॥ १ ॥' इत्यादि, नाप्यवयविद्वारेण, विकल्प्यमानखावयविन एवाभावात् , तथाहि-असौ खावयवेषु प्रत्येकं सामस्त्येन वा वर्तेत ? अंशांशिभावेन वा?, न सामस्त्येनावयचिबहुलप्रसाद, नाप्यंशेन पूर्वविकल्पानतिक्रमेणानवस्थाप्रसङ्गात् , तस्माद्विचार्यमाणं न कथञ्चिद्वस्वात्मभावं लभते, ततः सर्वमेवैतम्मायाखानेन्द्रजालमरुमरीचिकाविज्ञानसदृशं, तथा चोक्तम्-"यथा यथार्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येते (तत्) स्वयमर्थेभ्यो, रोचन्ते (ते) तत्र के वयम् ॥१॥" इत्यादि । तदेवं वस्वभावे तद्विशेषलोकालोकाभावः सिद्ध एवेत्येवं नो संज्ञा निवेशयेत् । | किंखस्ति लोक ऊोधस्तिर्यग्रूपो वैशाखस्थानस्थितकटिन्यस्तकरयुग्मपुरुषसदृशः पञ्चास्तिकायात्मको वा, तन्वतिरिक्तवालोकोऽप्यस्ति, संबन्धिशब्दसात, लोकव्यवस्थाऽन्यथाऽनुपपत्तेरिति भावः, युक्तिश्चात्र-यदि सर्व नास्ति तत सर्वान्तःपातिता
For Private And Personal