________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagio Branmandir
वीरिय'मित्यादि, 'सर्व सर्वत्र विद्यत' इतिकृता सांख्याभिप्रायेण सत्त्वरजस्तमोरूपस्य प्रधानस्यैकखात्तस्य च सर्वस्यैव कारणखात || अतः सर्व सर्वात्मकमित्येवं व्यवस्थिते 'सर्वत्र' घटपटादौ अपरस्य-व्यक्तस 'वीर्य' शक्तिर्विद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानका
यखात्कार्यकारणयोश्चैकखाद्, अतः सर्वस्य सर्वत्र वीर्यमस्तीत्येवं संज्ञां नो निवेशयेत् , तथा 'सर्वे भावाः स्वभावेन, स्वस्वभावव्यवI स्थिता' इति प्रतिनियतशक्तिवान्न सर्वत्र सर्वस्य 'वीर्य'शक्तिरित्येवमपि संज्ञां नो निवेशयेत् । युक्तियात्र-यत्तावदुच्यते 'सांख्याभि-18
प्रायेण सर्व सर्वात्मकं देशकालाकारप्रतिबन्धात्तु न समानकालोपलब्धि रिति, तदयुक्तं, यतो भेदेन सुखदुःखजीवितमरणदूरासन्नमूक्ष्मवादरसुरूपकुरूपादिकं संसारवैचित्र्यमध्यक्षेणानुभूयते, न च दृष्टेऽनुपपन्नं नाम, न च सर्वे मिथ्येत्यभ्युपपत्तुं युज्यते, यतो दृष्टहानिरदृष्टकल्पना च पापीयसी । किंच-सर्वथैक्येऽभ्युपगम्यमाने संसारमोक्षाभावतया कृतनाशोऽकृताभ्यागमश्च बलादापतति, यच्चैतत् सत्वरजस्तमसां साम्यावस्था प्रकृतिःप्रधानमित्येतत्सर्वस्यास्य जगतः कारणं तन्निरन्तराः सुहृदः प्रत्येष्यन्ति, नियुक्तिकखाद्, अपिच-सर्वथा सर्वस्य वस्तुन एकलेऽभ्युपगम्यमाने सत्त्वरजस्तमसामप्येकलं स्यात् , तद्भेदे च सर्वस्य तद्वदेव भेद इति । तथा यदप्युच्यते-'सर्वस्य व्यक्तस्य प्रधानकार्यखात्सत्कार्यवादाच्च मयूराण्डकरणे चञ्चपिच्छादीनां सतामेवोत्पादाभ्युपगमाद् असदुत्पादे चाम्रफलादीनामप्युत्पत्तिप्रसङ्गादित्येतद्वानात्रं, तथाहि-यदि सर्वथा कारणे कार्यमस्ति न तद्युत्पादो निष्पन्नघटस्खेव, अपिच मृत्पिण्डा(वस्थायामेव घटगताः कर्मगुणव्यपदेशा भवेयुः, न च भवन्ति, ततो नास्ति कारणे कार्यम्, अथानभिव्यक्तमस्तीति चेन्न तर्हि सर्वात्मना विद्यते, नाप्येकान्तेनासत्कार्यवाद एव, तद्भावे हि व्योमारविन्दानामप्येकान्तेनासतां मृत्पिण्डादेर्घटादेरिवोत्पत्तिः स्यात् , न चैतह१ कार्यस्य । २ शक्तयः । ३ खरूपेण । ४ खस्खाधारपदार्थेषु । ५ पपन्नं प्र.।
eeeeeeeeeees seeee
For Private And Personal