________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagh
y anmandir
सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाबीयावृत्तिः ॥३७५॥
जमिदं ओरालमाहारं, कम्मगं च तहेव य (तमेव तं)। सवत्थ वीरियं अत्थि, णथि सवत्थ वीरियं ॥१०॥(सू०) ५आचारएएहिं दोहिं ठाणेहिं, ववहारो ण विजई । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥११॥ (सू०) || श्रुताध्य. यदिवा योऽयमनन्तरमाहारः प्रदर्शितः स सति शरीरे भवति शरीरं च पञ्चधा तस्य चौदारिकादेः शरीरस्य भेदाभेदं प्रति-18 पादयितुकामः पूर्वपक्षद्वारेणाह-'जमिदमित्यादि, यदिदं सर्वजनप्रत्यक्षमुदारैः पुद्गलैनिवृत्तमौदारिकमेतदेवोरालं निस्सारखाद् एतच्च तिर्यअनुष्याणां भवति, तथा चतुर्दशपूर्वविदा कचित्संशयादावाहियत इत्याहारम् , एतद्ग्रहणाच वैक्रियोपादानमपि द्रष्टव्यं, तथा कर्मणा निर्वृत्तं कार्मणम् , एतत्सहचरितं तैजसमपि ग्राह्यम । औदारिकवैक्रियाहारकाणां प्रत्येकं तैजसकार्मणाभ्यां सह युगपदुपलब्धेः कस्यचिदेकखाऽऽशङ्का स्यादतस्तदपनोदार्थ तदभिप्रायमाह-'तदेव तद' यदेवौदारिकं शरीरं ते एव तैजसकामणे शरीरे, एवं वैक्रियाहारकयोरपि वाच्यं, तदेवंभूतां संज्ञां नो निवेशयेदित्युत्तरश्लोके क्रिया, तथैतेषामात्यन्तिको भेद इत्येवंभूतामपि संज्ञां नो निवेशयेत् । युक्तिश्चात्र-यद्येकान्तेनाभेद एव तत इदमौदारिकमुदारपुद्गलनिष्पन्नं तथैतत्कर्मणा निर्चित कार्मणं सर्वस्यैतस्य संसारचक्रवालभ्रमणस्य कारणभूतं तेजोद्रव्यैर्निष्पन्नं तेज एव तैजसं आहारपक्तिनिमिचं तैजसलब्धिनिमित्तं चेत्येवं भेदेन संज्ञा निरुक्तं कार्य च न स्यात् । अथात्यन्तिको भेद एव ततो घटवद्भिन्नयोर्देशकालयोरप्युपलब्धिः स्यात्, न नियता युगपदुपलब्धिरिति, एवं च व्यवस्थिते कथञ्चिदेकोपलब्धेरभेदः कथञ्चिच्च संज्ञाभेदाढ़ेद इति स्थितं । तदेवमौदारिकादीनां ॥३७॥ शरीराणां भेदाभेदौ प्रदर्याधुना सर्वस्यैव द्रव्यस्य भेदाभेदौ प्रदर्शयितुकामः पूर्वपक्षं श्लोकपश्चार्द्धन दर्शयितुमाह-'सव्वत्थ १ औदारिककार्यस्य धर्माधर्मार्जनमुक्त्यवाप्त्यादेः प्रसिद्धत्वान्न निर्देशः ।
For Private And Personal