SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga तीत्ययमर्थः प्रतिपाद्यते, यदा चैवंभूतं तदानन्त्यं तत्कथं तेषां क्षयः १, युक्तिरप्यत्र - संबन्धिशब्दावेतौ, मुक्तिः संसारं विना न भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे संसारस्याप्यभावः स्यादतोऽभिधीयते नानयोर्व्यवहारो युज्यत इति ॥ ५ ॥ अधुना चारित्राचारमङ्गीकृत्याह जे के खुद्दगा पाणा, अदुवा संति महालया । सरिसं तेहिं वेरंति, असरिसंती य णो वदे ॥ ६ ॥ एहिं दोहिं ठाणेहिं, ववहारो ण विज्जई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ ७ ॥ ( सूत्र ) ये केचन क्षुद्रकाः सच्चा:- प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पञ्चेन्द्रिया अथवा 'महालया' महाकायाः 'सन्ति' विद्यन्ते तेषां च क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महानालयः - शरीरं येषां ते महालया - हस्त्यादयस्तेषां च व्यापादने सदृशं 'वैर' मिति वज्रं कर्म विरोधलक्षणं वा वैरं तत् 'सदृशं' समानं तुल्यप्रदेशत्वात्सर्वजन्तूनामित्येवमेकान्तेन नो वदेत्, तथा 'विसदृशम्' असदृशं तद्वयापत्तौ वैरं कर्मबन्धो विरोधो वा इन्द्रियविज्ञानकायानां विसदृशत्वात् सत्यपि प्रदेशतुल्यत्वे न सदृशं वैरमित्येवमपि नो वदेत्, यदि हि वध्यापेक्ष एव कर्मबन्धः स्यात्तदा ततद्वशात्कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्येत, न च तद्वशादेव | बन्धः अपि लध्यवसायवशादपि, ततश्च तीव्राध्यवसायिनोऽल्पकायसच्वव्यापादनेऽपि महद्वैरम्, अकामस्य तु महाकाय सत्वव्या| पादनेऽपि स्वल्पमिति ॥ ६ ॥ एतदेव सूत्रेणैव दर्शयितुमाह- आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पकायमहाकाय व्यापादनापादितकर्मबन्धसदृशत्वास दृशत्वयोर्व्यवहरणं व्यवहारो निर्युक्तिकत्वान्न युज्यते, तथाहि न वध्यस्य सदृशत्वमसदृशत्वं १ अत्र हि हवदीर्घत्ववद् घटतदभाववत्सत्त्वापेक्षता न तु कार्यकारणरूपेण, तथा च न मुक्तिमन्तरेण न संसार इत्यत्र विरोधः । For Private And Personal Gyanmandir
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy