SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Aradhana Kendra www.kobatirth org Acharya Shri Kailashsag a nmandir 020200 अंधो अंधं पहं णितो, दूरमद्धाणु गच्छइ । आवजे उप्पहं जंतू , अदुवा पंथाणुगामिए ॥ १९ ॥ यथा अन्धः स्वयमपरमन्धं पन्थानं नयन् 'दूरमध्वानं' विवक्षितादध्वनः परतरं गच्छति, तथोत्पथमापद्यते जन्तुरन्धः, अथवा * परं पन्थानमनुगच्छेत् , न विवक्षितमेवाध्वानमनुयायादिति ॥ १९ ।। एवं दृष्टान्तं प्रसाध्य दार्टान्तिकमर्थ दर्शयितुमाह एवमेगे णियायट्टी, धम्ममाराहगा वयं । अदुवा अहम्ममावजे, ण ते सवजुयं वए ॥ २० ॥ & 'एव'मिति पूर्वोक्तार्थोपप्रदर्शने, एवं भावमूढा भावान्धाश्चैके आजीविकादयः 'नियायट्ठी'त्ति नियागो-मोक्षः सद्धर्मो वा तद-18 र्थिनः, ते किल वयं सद्धर्माराधका इत्येवं संधाय प्रव्रज्यायामुद्यताः सन्तः पृथिव्यम्बुवनस्पत्यादिकायोपमर्दैन पचनपाचनादिक्रियासु प्रवृत्ताः सन्तस्तत्स्वयमनुतिष्ठन्ति अन्येषां चोपदिशन्ति येनाभिप्रेताया मोक्षावाप्तेभ्रंश्यन्ति, अथवाऽऽस्तां तावन्मोक्षामा वः, त एवं प्रवर्तमाना 'अधर्म पापमापोरन् , संभावनायामुत्पन्नेन लिङ्प्रत्ययेनैतदर्शयति-एतदपरं तेषामनर्थान्तरं संभाव्यते श यदुत विवक्षितार्थाभावतया विपरीतार्थावानेः पापोपादानमिति । अपिच-त एवमसदनुष्ठायिन आजीविकादयो गोशालकमतानुसारिणोऽज्ञानवादप्रवृत्ताः सर्वैः प्रकारैक्रेजुः-प्रगुणो विवक्षितमोक्षगमनं प्रत्यकुटिलः सर्वर्जु:-संयमः सद्धर्मो वा तं सर्वजुकं ते 'न बजेयुः न प्राप्नुयुरित्युक्तं भवति, यदिवा-सर्वर्जुकं-सत्यं तत्तेऽज्ञानान्धा ज्ञानापलापिनो न वदेयुरिति । एते चाज्ञानिकाः सप्तपष्टिभेदा भवन्ति, ते च भेदा अमुनोपायेन प्रदर्शनीयाः, तद्यथा-जीवादयो नव पदार्थाः, सत् असत् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसदवक्तव्य इत्येतैः सप्तभिः प्रकारैर्विज्ञातुं न शक्यन्ते, न च विज्ञातैः प्रयोजनमस्ति, भावना 0000000 For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy