________________
Shri Maha Aradhana Kendra
सूत्रकृ. ६३ ०
www.kobatirth.org
Acharya Shri Kailashsa Gyanmandir
| तथा चोक्तम्- " घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम् ॥ १ ॥ इत्यादि । तदेवं | नित्यानित्यपक्षयोर्व्यवहारो न विद्यते, तथाऽनयोरेवानाचारं विजानीयादिति स्थितम् ॥ ३ ॥ तथाऽन्यमप्यनाचारं प्रतिषेद्धुकाम आहसमुच्छिहिंति सत्थारो, सवे पाणा अणेलिसा । गंटिंगा वा भविस्संति, सासयंति व णो वए ॥ ४ ॥ एएहिं दोहिं ठाणेहिं, ववहारो ण विज्जइ । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ ५ ॥ ( सूत्र ) सम्यक् - निरवशेषतया 'उच्छेत्स्यन्ति' उच्छेदं यास्यन्ति-क्षयं प्राप्स्यन्ति सामस्त्येनोत् - प्राबल्येन सेत्स्यन्ति वा सिद्धिं यास्यन्ति, के ते ? - शास्तारः - तीर्थकृतः सर्वज्ञास्तच्छासनप्रतिपन्ना वा 'सर्वे' निरवशेषाः सिद्धिगमनयोग्या भव्याः, ततश्वोच्छिन्नभयं जगत्स्यादिति, शुष्कतर्काभिमानग्रहगृहीता युक्तिं चाभिदधति - जीवसद्भावे सत्यप्यपूर्वोत्पादाभावादभव्यस्य च सिद्धिगमनासंभवा|त्कालस्य चानन्त्यादनारतं सिद्धिगमनसंभवेन तद्व्ययोपपत्तेरपूर्वायाभावाद्भव्योच्छेद इत्येवं नो वदेत्, तथा सर्वेऽपि 'प्राणिनो' | जन्तवः 'अनीदृशा' विसदृशाः सदा परस्परविलक्षणा एव, न कथञ्चित्तेषां सादृश्यमस्तीत्येवमप्येकान्तेन नो वदेत्, यदिवा| सर्वेषां भव्यानां सिद्धिसद्भावेऽवशिष्टाः संसारे 'अनीदृशा' अभव्या एव भवेयुरित्येवं च नो वदेत्, युक्तिं चोत्तरत्र वक्ष्यति । | तथा कर्मात्मको ग्रन्थो येषां विद्यते ते ग्रन्थिकाः, सर्वेऽपि प्राणिनः कर्मग्रन्थोपेता एव भविष्यन्तीत्येवमपि नो वदेत्, इदमुक्तं | भवति - सर्वेऽपि प्राणिनः सेस्स्यन्त्येव कर्मावृता वा सर्वे भविष्यन्तीत्येवमेकमपि पक्षमेकान्तिकं नो वदेत् । यदिवा - 'ग्रन्थि - का' इति ग्रन्थिकसत्त्वा भविष्यन्तीति, ग्रन्थिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं च नो वदेत्, तथा 'शाश्वता' इति शास्तार : 'सदा' सर्वकालं स्थायिनस्तीर्थकरा भविष्यन्ति 'न समुच्छेस्यन्ति' नोच्छेदं यास्यन्तीत्येवं नो वदेदिति ॥४॥ तदेवं दर्शनाचारवा
For Private And Personal