SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mars Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagard nmandir 9000280sar यथा म्लेच्छः अम्लेच्छस परमार्थमजानानः केवलं तद्भाषितमनुभाषते, तथा 'अज्ञानिका' सम्यग्ज्ञानरहिताः श्रमणा ब्राह्मणा वदन्तोऽपि खीयं स्वीयं ज्ञानं प्रमाणत्वेन परस्परविरुद्धार्थभाषणातू निश्वयार्थ न जानन्ति, तथाहि ते खकीयं तीर्थकर सर्वज्ञत्वेन निर्झर्य तदुपदेशेन क्रियासु प्रवर्तेरन् , न च सर्वज्ञविवक्षा अर्वाग्रदर्शिना ग्रहीतुं शक्यते, 'नासर्वज्ञः सर्वज्ञं जानाती'ति या चोक्तम्-"सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥१॥" एवं परचेतोवृत्तीनां दुरन्वयत्वादुपदेष्टुरपि यथावस्थितविवक्षया ग्रहणासंभवान्निश्चयार्थमजानाना म्लेच्छवदपरोक्तमनुभाषन्त एव, 'अबोधिका' बोधरहिताः केवलमिति, अतोऽज्ञानमेव श्रेय इति । एवं यावद्यावज्ज्ञानाभ्युपगमस्तावत्तावद्गुरुतरदोषसंभवः, | तथाहि-योऽवगच्छन् पादेन कस्यचित् शिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन सशति तस्मै न कश्चिदपराध्यतीति, एवं चाज्ञानमेव प्रधानभावमनुभवति, न तु ज्ञानमिति ॥ १६ ॥ एवमज्ञानवादिमतमनूचेदानीं तदूषणायाहअन्नाणियाणं वीमंसा, अण्णाणे ण विनियच्छइ । अप्पणो य परं नालं, कुतो अन्नाणुसासिउं ? ॥१७॥ 81 न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, अज्ञानशब्दस्य संज्ञाशब्दलाद्वा मत्वर्थीयः,गौरखरवदरण्यमिति यथा, तेषामज्ञानिनाम् -अज्ञानमेव श्रेय इत्येवंवादिनां, योऽयं 'विमर्श: पर्यालोचनात्मको मीमांसा वा-मातुं परिच्छेत्तुमिच्छा सा 'अज्ञाने' अज्ञानविषये 'न णियच्छति' न निश्चयेन यच्छति-नावतरति, न युज्यत इतियावत्, तथाहि-यैवंभूता मीमांसा विमर्शो वा किमेतज्ज्ञानं सत्यमुतासत्यमिति ?, यथा अज्ञानमेव श्रेयो यथा यथा च ज्ञानातिशयस्तथा तथा च दोषातिरेक इति सोऽयमेवंभूतो विमर्श For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy