SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mal th Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagaci Granmandir प्रयोजनपदं, प्रयोजनप्रयोजनं तु मोक्षावाप्तिः, सम्बन्धस्तु प्रयोजनपदानुमेय इति पृथक नोक्तः, तदुक्तम्-"शास्त्रं प्रयोजनं चेति, सम्बन्धस्याश्रयावुभौ । तदुक्त्यन्तर्गतस्तस्माद्भिनो नोक्तः प्रयोजनात् ॥१॥" इति समुदायार्थः ॥ अधुनाऽवयवार्थः ।। कथ्यते-तत्र तीर्थ द्रव्यभावभेदाद्विधा, तत्रापि द्रव्यतीर्थ नद्यादेः समुत्तरणमार्गः, भावतीथे तु सम्यग्दर्शनज्ञानचारित्राणि, संसारार्णवादुत्तारकत्वात् , तदाधारो वा सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थङ्करास्तानवेति क्रिया । तत्रान्येषामपि तीर्थकरखसंभवे तद्यवच्छेदार्थमाह-'जिनवरानि ति रागद्वेषमोहजितो जिनाः, एवंभूताश्च सामान्यकेवलिनोऽपि भवन्ति, तद्यवच्छेदार्थमाह-वरा:-प्रधानाः चतुस्त्रिंशदतिशयसमन्वितखेन, तानलेति, एतेषां च नमस्कारकरणमागमार्थोपदेष्ट्रलेनोपकारिखात् , विशिष्टविशेषणोपादानं च शास्त्रस्य गौरवाधानार्थ, शास्तुः प्राधान्येन हि शास्त्रस्यापि प्राधान्यं भवतीति भावः अर्थस सूचनात्सूत्रं, तत्करणशीलाः सूत्रकराः, ते च स्वयंबुद्धादयोऽपि भवन्तीत्यत आह-गणधरास्तांश्च नलेति, सामान्याचार्याणां गणधरखेऽपि तीर्थकरनमस्कारानन्तरोपादानागौतमादय एवेह विवक्षिताः। प्रथमश्चकारः सिद्धाधुपलक्षणार्थो द्वितीयः समुचितौ ।। क्खाप्रत्ययस्य क्रियाऽन्तरसव्यपेक्षखात्तामाह-वपरसमयसूचनं कृतमनेनेति सूत्रकृतस्तस्य, महार्थवत्त्वाद्भगवस्तिस्य, अनेन च सर्वज्ञप्र-8 णीतसमावेदितं भवति । 'नियुक्ति कीर्तयिष्ये' इति योजनं युक्तिः-अर्थघटना, निश्चयेनाधिक्येन वा युक्तिनियुक्तिः-सम्यगर्थप्रकटनमितियावत् , निर्युक्तानां वा-सूत्रेष्वेव परस्परसम्बद्धानामर्थानामाविर्भावनं, युक्तशब्दलोपानियुक्तिरिति, तां 'कीर्तयिष्यामि' अभिधास्य इति ॥ इह सूत्रकृतस्य नियुक्ति कीर्तयिष्ये इत्यनेनोपक्रमद्वारमुपक्षिप्तं, तच्च 'इहापसदे'त्यादिनेषदभिहितमिति, तदनन्तरं १ समः समुत्तरणमार्गः प्र. २ जिनेत्यनुक्त्वा जिनवरानिति वरत्वयुक्तजिनेत्युपादानं Beeeeeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy