________________
Shri
Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashs
y anmandir
णं जा सा सवओ विरयाविरई एस ठाणे आरंभणोआरंभट्ठाणे एस ठाणे आरिए जाव सबदुक्खप्पहीणमग्गे एगंतसम्म साहू ॥ सूत्रं ३९॥
अथापरस्य तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गः समाख्यायते-एतच्च यद्यपि मिश्रखाद्धर्माधर्माभ्यामुपपेतं तथापि धर्मभूयिष्ठखाद्धार्मिकपक्ष एवावतरति, तद्यथा-बहुपु गुणेषु मध्यपतितो दोषो नात्मानं लभते, कलङ्क इव चन्द्रिकायाः, तथा बहूदकमध्यपतितो मृच्छकलावयवो नोदकं कलुपयितुमलम् , एवमधर्मोऽपि धर्ममिति स्थितं धार्मिकपक्ष एवायं । 'इह' अस्मिन् जगति प्राच्यादिषु दिक्षु एके केचन शुभकर्माणो मनुष्या भवन्तीति, तद्यथा-अल्पा-स्तोका परिग्रहारम्भेष्विच्छा-अन्तःकरणप्रवृत्तिर्येषां ते तथा एवंभूता धार्मिकवृत्तयः प्रायः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधवो भवन्तीति । तथैकस्मात्-स्थूलात्संकल्पकृतात् प्रतिनिवृत्ता एकसाच सूक्ष्मादारम्भजादप्रतिनिवृत्ता एवं शेषाण्यपि व्रतानि संयोज्यानीति । | एतस्मादपि सामान्येन निवृत्ता इत्यतिदिशन्नाह-'जे यावण्णे' इत्यादि, ये चान्ये सावद्या नरकादिगमनहेतवः कर्मसमार-1%8 म्भास्तेभ्य एकस्माद्यत्रपीडननिलाञ्छनकृषीवलादेनिवृत्ता एकसाच्च क्रयविक्रयादेरनिवृत्ता इति ॥ तांश्च विशेषतो दर्शयितुमाह-विशिष्टोपदेशार्थ श्रमणानुपासते-सेवन्त इति श्रमणोपासकाः, ते च श्रमणोपासनतोऽभिगतजीवाजीवखभावाः तथोपलब्धपुण्यपापाः । इह च प्रायः सूत्रादर्शषु नानाविधानि सूत्राणि दृश्यन्ते न च टीकासंवाद्यकोऽप्यस्माभिरादर्शः समुपलब्धोऽत एकमादर्शमङ्गीकृत्यासाभिर्विवरणं क्रियते इत्येतदवगम्य सूत्रविसंवाददर्शनाचित्तव्यामोहो न विधेय इति । ते श्रावकाः परिज्ञातवन्धमोक्षस्वरूपाः सन्तो न धर्माच्याव्यन्ते मेरुरिव निष्प्रकम्पा दृढमाईते दर्शनेऽनुरक्ताः । अत्र चार्थे सुखप्रतिप
Haorae20029292020823929
For Private And Personal