SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥३३६॥ www.kobatirth.org Acharya Shri Kailashsaganmandir त्यर्थं दृष्टान्तभूतं कथानकं, तच्चेदं तद्यथा - राजगृहे नगरे कथिदेकः परिव्राट् विद्यामत्रौषधिलब्धसामर्थ्यः परिवसति, स च | विद्यादिवलेन पत्तने पर्यटन् यां यामभिरूपतरामङ्गनां पश्यति तां तामपहरति, ततः सर्वनागरै राज्ञे निवेदितं यथा देव ! प्रत्यहं पत्तनं मुष्यते केनापि, नीयते सर्वसारमङ्गनाजनोऽपि, यस्तस्यानभिमतः सोऽत्र केवलमास्ते, तदेवं (देव ! ) क्रियतां प्रसादस्तद| न्वेषणेनेति । राज्ञाऽभिहितं - गच्छत यूयं विश्रब्धा भवत अवश्यमहं तं दुरात्मानं लप्स्ये किंच - यदि पञ्चषैरहोभिर्न लभे चौरं वि|मर्शयुक्तोऽपि च त्यक्ष्याम्यात्मानमहं ज्वालामालाकुले वह्नौ, तदेवं कृतप्रतिज्ञं राजानं प्रणम्य निर्गता नागरिकाः राज्ञा च सवि| शेषं नियुक्ता आरक्षकाः । आत्मनाऽप्येका की खङ्गखेटकसमेतोऽन्वेष्टुमारब्धः, न चोपलभ्यते चौरः, ततो राज्ञा निपुणतरमन्वेषयता | पञ्चमेऽहनि भोजनताम्बूलगन्धमाल्यादिकं गृह्णन् रात्रौ स्वतो निर्गतेनोपलब्धः स परिव्राट्, तत्पृष्ठगामिना नगरोद्यानवृक्ष कोटर प्र| वेशेन गुहाभ्यन्तरं प्रविश्य व्यापादितः, तदनन्तरं समर्पितं यद्यस्य सत्कमङ्गनाजनोऽपीति । तत्र चैका सीमन्तिनी अत्यन्तमौष| धिभिर्भाविता नेच्छत्यात्मीयमपि भर्तारं ततस्तद्विद्भिरभिहितं यथाऽस्याः परिव्राट्सत्कान्यस्थीनि दुग्धेन सह संघृष्य यदि दीयन्ते तदेयं तदाग्रहं मुञ्चति, ततस्तत्स्वजनैरेवमेव कृतं यथा यथा चासौ तदस्थ्यभ्यवहारं विधत्ते तथा तथा तत्स्नेहानुबन्धोऽपैति, | सर्वास्थिपाने चापगतः प्रेमानुबन्धः, तदनु रक्ता निजे भर्तरि । तदेवं यथाऽसावत्यन्तं भाविता तेन परिव्राजा नेच्छत्यपरम् एवं | श्रावकजनोऽपि नितरां भावितात्मा मौनीन्द्रशासने न शक्यते अन्यथाकर्तुम्, अत्यन्तं सम्यक्त्वौषधेन वासितत्वादिति । पुनरपि | श्रावकान् विशिनष्टि - 'जाव उसियफलिहा' इत्यादि, उच्छ्रितानि स्फटिकानीव स्फटिकानि - अन्तःकरणानि येषां ते तथा, एत| दुक्तं भवति – मौनीन्द्रदर्शनावाप्तौ सत्यां परितुष्टमानसा इति, तथा अप्रावृतानि द्वाराणि यैस्ते तथा, उद्घाटितगृहद्वारास्तिष्ठन्ति For Private And Personal २ क्रियास्थानाध्य० मिश्र धर्म पक्षे श्राव कव ० ॥३३६॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy