________________
Shri Man
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashg
a nmanse
वंभूता भवन्तीति दर्शयति-'ते णं तत्थ देवा' इत्यादि, ते देवा नानाविधतपश्चरणोपात्तशुभकर्माणो महादिगुणोपेता भवन्तीत्या-S दिकः सामान्यगुणवर्णकः, ततो हारविराजितवक्षस इत्यादिक आभरणवस्त्रपुष्पवर्णकः, पुनरतिशयापादनार्थ दिव्यरूपादिप्रतिपादनं चिकीर्षुराह-'दिवेणं रूवेण मित्यादि, दिवि भवं दिव्यं तेन रूपेणोपपेता यावद्दिव्यया द्रव्यलेश्ययोपपेता दशापि दिशः समुद्योतयन्तः, तथा 'प्रभासयन्तः' अलंकुर्वन्तो 'गत्या' देवलोकरूपया कल्याणाः-शोभना गत्या वा-शीघ्ररूपया प्रशस्तविहायोगतिरूपया वा कल्याणाः, तथा स्थित्या उत्कृष्टमध्यमया कल्याणास्ते भवन्ति, तथाऽऽगामिनि काले भद्रकाः शोभ-11 |नमनुष्यभवरूपसंपदुपपेताः, तथा सद्धर्मप्रतिपत्तारश्च भवन्तीति । तदेतत्स्थानमार्यमेकान्तेनैव सम्यग्भूतं सुसाध्वितीत्येतद्वितीयस्य | स्थानस्य धर्मपाक्षिकस्य विभङ्ग एवमाख्यातः॥
अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिजइ-इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति, तंजहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्ति कप्पेमाणा विहरंति सुसीला सुव्वया सुपडियाणंदा साह एगच्चाओ पाणाइवायाओ पडिविरता जावजीवाए एगचाओ अप्पडिविरया जाव जे यावण्णे तहप्पगारा सावजा अयोहिया कम्मंता परपाणपरितावणकरा कज्वति ततोवि एगचाओ अप्पडिविरया ॥ से जहाणामए समणोवासगा भवंति अभिगयजीवाजीवा उवलद्वपुण्णपावा आसवसंवरवेयणाणिज्जराकिरियाहिगरणबंधमोक्खकुसला असहेजदेवासुरनागसुवण्णजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधश्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जा
For Private And Personal