________________
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिचंधकारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेदवसामसरुहिरपूयपडलचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुन्भिगंधा कण्हा अगणिवन्नाभा कक्खडफासा दुरहियासा असुभा गरगा असुभा णरएसु वेयणाओ॥णो चेव णरएसु नेरइया णिहायंति वा पयलायंति वा सुई वा रतिं वा धिति वा मतिं वा उवलभंते, ते णं तत्थ उज्जलं विउलं पगाढं कड्डयं कक्कसं चंडं दुक्खं दुग्गं तिचं दुरहियासं णेरड्या वेयणं पचणुभवमाणा विहरंति ॥ सूत्रं ३६॥
णमिति वाक्यालङ्कारे ते नरकाः सीमन्तकादिका बाहुल्यमङ्गीकृत्यान्तः-मध्ये वृत्ता बहिरपि चतुरस्रा अधश्च क्षुरप्रसंस्थानसंस्थिताः, एतच्च संस्थानं पुष्पावकीर्णानाश्रित्योक्तं, तेषामेव प्रचुरखात् , आवलिकाप्रविष्टास्तु वृत्तव्यस्रचतुरस्रसंस्थाना एव भवन्ति, | तथा नित्यमेवान्धतमसं येषु ते नित्यान्धतमसाः, कचित्पाठो नित्यान्धकारतमसा इति, मेघावच्छन्नाम्बरतलकृष्णपक्षरजनीवत् तमोबहुलाः, तथा व्यपगतो ग्रहचन्द्रसूर्यनक्षत्रज्योतिःपथो येषां ते तथा । पुनरप्यनिष्टापादनार्थ तेषामेव विशेषणान्याह-'मेदवसे'त्यादि, दुष्कृतकर्मकारिणां ते नरकास्तदुःखोत्पादनायैवंभूता भवन्ति, तद्यथा-मेदवसामांसरुधिरपूयादीनां पटलानि-सङ्घास्तैलिप्तानि-पिच्छिलीकृतान्यनुलेपनतलानि-अनुलेपनप्रधानानि तलानि येषां ते तथा, अशुचयो विष्ठाऽमृक्क्लेदप्रधानखाद् अत एव विश्राः कुथितमांसादिकल्पकर्दमावलिप्तखात् , एवं परमदुर्गन्धाः कुथितगोमायुकलेवरादपि असह्यगन्धाः, तथा कृष्णाग्निवर्णाभा रूपतः स्पर्शतस्तु कर्कश:-कठिनो वज्रकण्टकादप्यधिकतरः स्पर्शो येषां ते तथा, किंबहुना ?, अतीव दुःखेनाधिसद्यन्ते, किमि
peeeeeeeeeeeeeeeeeesesecess
For Private And Personal