SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain, Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagaguri farmandir वकादिषु जीवनप्रियेषु प्राणिष्वयताः क्रूरकर्माणो मिथ्यादण्डं प्रयुञ्जन्ति । तेषां च क्रूरधियां "यथा राजा तथा प्रजा" इति प्रवादात् परिवारोऽपि तथाभूत एव भवतीति तथा दर्शयितुमाह-'जावि य से' इत्यादि, याऽपि च तेषां बाह्या पर्षद्भवति, तद्यथा-'दास' खदासीसुतः 'प्रेष्यः प्रेषणयोग्यो भृत्यदेश्यो 'भृतको वेतनेनोदकाद्यानयनविधायी तथा 'भागिको यः षष्ठांशादिलाभेन कृष्यादौ व्याप्रियते 'कर्मकर: प्रतीतः तथा नायकाश्रितः कश्चिद्भोगपरः, तदेवं ते दासादयोऽन्यस लघावप्यपराधे | गुरुतरं दण्डं प्रयुञ्जन्ति प्रयोजयन्ति च । स च नायकस्तेषां दासादीनां बाह्यपर्षद्भूतानामन्यतरसिंस्तथा लघावप्यपराधे-शब्दाश्र| वणादिके गुरुतरं दण्डं वक्ष्यमाणं प्रयुङ्क्ते, तद्यथा-इमं दासं प्रेष्यादिकं वा सर्वखापहारेण दण्डयत यूयमित्यादि सूत्रसिद्धं यावदि| ममन्यतरेणाशुभेन कुत्सितमारेण व्यापादयत यूयम् ॥ याऽपिच क्रूरकर्मवतामभ्यन्तरा पर्षद्भवति, तद्यथा-मातापित्रादिका, मित्रदोषप्रत्ययिकक्रियास्थानवद् नेयं यावदहितोऽयममिन् लोके इति, तथा हि आत्मनोऽपथ्यकारी परस्मिन्नपि लोके, तदेवं ते | मातापित्रादीनां स्वल्पापराधिनामपि गुरुतरदण्डापादनतो दुःखमुत्पादयन्ति, तथा नानाविधैरुपायैस्तेषां शोकमुत्पादयन्ति-शोक| यन्तीत्येवं ते प्राणिनां बहुप्रकारपीडोत्पादकाः यावद्वधवन्धपरिक्लेशादप्रतिविरता भवन्ति ॥ ते च विषयासक्ततया एत कुर्वन्तीत्येतद्दर्शयितुमाह-एवमेव पूर्वोक्तखभावा एवं ते निष्कृपा निरनुक्रोशा बाह्याभ्यन्तरपर्षदोरपि कर्णनासाविकर्तनादिना दण्डपातनखभावाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु-मदनकामविषयभूतासु कामेषु च-शब्दादिषु इच्छाकामेषु मूच्छिता 16|| गृद्धा प्रथिता अध्युपपनाः, एते च शक्रपुरन्दरादिवत्पर्यायाः कश्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः, ते च भोगासक्ता व्यपगतपर-1 लोकाध्यवसाया यावद्वर्षाणि चतुःपञ्च षट् सप्त वा दश वाऽल्पतरं वा कालं प्रभूततरं वा कालं भुक्खा भोगभोगान् इन्द्रियानुकू सूत्रकृ.५५ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy