________________
www.kobatirth.org
Acharya Shri Kailashsaga
n mandir
ध्यायसंघाटकात्मार्थ चखारो मोदका अवाप्ताः, कूटं तु-काषापणतुलाप्रस्थादेः परवञ्चनार्थ न्यूनाधिककरणम्, एतैरुत्कुश्चनादिभिः । सहातिशयेन संप्रयोगो यदिवा-सातिशयेन द्रव्येण-कस्तूरिकादिनाऽपरस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगस्तगहुला:-तत्प्रधाना इत्यर्थः, उक्तं च-"सो होई सातिजोगो दवं जं छादियण्णदवेसु । दोसगुणा वयणेसु य अत्थविसंवायणं कुणइ ॥१॥" एते चोत्कुञ्चनादयो मायापर्याया इन्द्रशक्रादिवत् कथञ्चित्क्रियाभेदेऽपि द्रष्टव्याः । तथा दुष्टं शीलं येषां ते दुःशीला:|चिरमुपचरिता अपि क्षिप्रं विसंवदन्ति, दुःखानुमेया दारुणखभावा इत्यर्थः, तथा दुष्टानि व्रतानि येषां ते तथा यथा मांसभक्षणव्रतकालसमाप्तौ प्रभूततरसत्त्वोपघातेन मांसप्रदानम् , अन्यदपि नक्तभोजनादिकं तेषां दुष्टव्रतमिति, तथाऽन्यमिन् जन्मान्तरे मधुमद्यमांसादिकमभ्यवहरिष्यामीत्येवमज्ञानान्धा जन्मान्तरविधिद्वारेण सनिदानमेव व्रतं गृह्णन्ति, तथा दुःखेन प्रत्यानन्यन्ते दुष्प्रत्यानन्याः, इदमुक्तं भवति-तैरानन्दितेनापरेण केनचित्प्रत्युपकारेप्सुना गर्वाध्माता दुःखेन प्रत्यानन्द्यन्ते, यदिवा सत्यप्युपकारे प्रत्युपकारभीरवो नैवानन्यन्ते प्रत्युत शठतयोपकारे दोषमेवोत्पादयन्ति, तथा चोक्तम्-“प्रतिकर्तुमशक्तिष्ठा, नराः पूर्वोपकारिणाम् । दोषमुत्पाद्य गच्छन्ति, मद्नामिव वायसाः॥१॥" यत एवमतोऽसाधवस्ते पापकर्मकारिखात् , तथा 'यावज्जीवं' यावत्प्राणधारणेन सर्वसाप्राणातिपातादप्रतिविरता लोकनिन्दनीयादपि ब्राह्मणघातादेरविरता इति सर्वग्रहणं, एवं सर्वसादपि कूटसाक्ष्यादेरपतिविरता इति, तथा सर्वस्मात्स्त्रीबालादेः परद्रव्यापहरणादविरताः, तथा सर्वस्मात्परस्त्रीगमनामैथुनादविरताः, एवं सर्वस्मात्परिग्रहाद्योनिपोषकादप्यविरताः, एवं सर्वेभ्यः क्रोधमानमायालोमेभ्यो विरताः, तथा प्रेमद्वेषकलहाभ्याख्यानपैशुन्य१ स भवति सातियोगो द्रव्यं यच्छादयित्वाऽन्यद्रव्यैः दोषगुणांश्च वचनैरर्थविसंवादनं करोति ॥१॥
For Private And Personal