SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ Shri Mahan radhana Kendra सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥३२५ || www.kobatirth.org Acharya Shri Kailashsaganmandir न कर्मणा परितप्यन्ते अन्तर्दह्यन्तेपरांश्च परितापयन्ति । तदेवं तेऽसद्वृत्तयः सन्तो दुःखनशोचनादिक्लेशादप्रतिविरताः सदा भवन्ति । एवंभूताश्च सन्तस्ते महताऽऽरम्भेण - प्राणिव्यापादनरूपेण तथा महता समारम्भेण - प्राणिपरितापनरूपेण तथोभाभ्यामप्यारम्भसमारम्भाभ्यां 'विरूपरूपैश्च' नानाप्रकारैः सावद्यानुष्ठानैः पापकर्मकृत्यैः 'उदारान्' अत्यन्तोद्भटान् समग्रसामग्री कान् मधुमद्यमांसाद्युपेतान् 'मानुष्यकान्' मनुष्यभवयोग्यान् भोगेभ्योऽप्युत्कटान् भोगभोगान् ते सावद्यानुष्ठायिनो भोक्तारो भवन्ति । एतदेव दर्शयितुमाह- 'तंज' त्यादि, तद्यथेत्युपप्रदर्शने, अन्नमन्नकाले यथेप्सितं तस्य पापानुष्ठानात्संपद्यते, एवं पानवस्त्रशयनासनादिकमपि । सर्वमेतद्यथाकालं सपूर्वापरं संपद्यते, सह पूर्वेण - पूर्वाह्न कर्तव्येनापरेण च - अपराह्नकर्तव्येन यदिवा पूर्वं यत् क्रियते स्नानादिकं | तथा परं च यत् क्रियते विलेपनभोजनादिकं तेन सह वर्तत इति सपूर्वापरम् इदमुक्तं भवति - यद्यदा प्रार्थ्यते तत्तदा संपद्यत इति, अभिलषितार्थप्राप्तिमेव लेशतो दर्शयितुमाह- तद्यथा - विभूत्या स्त्रातस्तथा कृतं देवतादिनिमित्तं बलिकर्म येन स तथा, तथा | कृतानि कौतुकानि - अवतारणकादीनि मङ्गलानि च सुवर्णचन्दनदध्यक्षतदूर्वासिद्धार्थ कादर्शकस्पर्शनादीनि तथा दुःस्वप्नादिप्रतिघातकानि प्रायश्चित्तानि येन स कृतकौतुकमङ्गलप्रायश्चित्तः, तथा कल्पितश्चासौ मालाप्रधानो मुकुट २ स तथा विद्यते यस्य स भवति कल्पितमालामुकुटी, तथा प्रतिबद्धशरीरो- दृढावयवकायो युवेत्यर्थः, तथा 'वग्घारियं'ति प्रलम्बितं श्रोणीसूत्रं - कटिसूत्रं मल्लदामकलापश्च येन स तथा तदेवमसौ शिरसिस्नातः नानाविधविलेपनावलिप्तश्च कण्ठेकृतमालस्तथाऽपरयथोक्त भूषणभूषितः सन्महत्याम् - उच्चायां 'महालियाए 'त्ति विस्तीर्णायां कूटागारशालायां तथा 'महतिमहालये' विस्तीर्णे 'सिंहासने' भद्रासने समुपविष्टः 'स्त्रीगुल्मेन' युवतिजनेन सार्द्धमपरपरिवारेण 'संपरिवृतो' वेष्टितः, तथा 'महता' बृहत्तरेण प्रहतनाट्यगीतवादित्र For Private And Personal २ क्रियास्थानाध्य० अधार्मिक पक्षः ॥३२५॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy