________________
Acharya Shri Kailashsagars
पुरुषाद्भिन्नोऽभिन्नो वा ?, यदि भिन्नो न पुरुषाश्रिते सुखदुःखे कर्तुमलं तस्माद्भिन्नत्वादिति, नाप्यभिन्नः अभेदे पुरुष एव स्वात् तस्य चाकर्तृलमुक्तमेव । नापि कर्मणः सुखदुःखं प्रति कर्तृत्वं घटते, यतस्तत्कर्म पुरुषाद्भिन्नमभिन्नं वा भवेत् , अभिन्नं | चेत्पुरुषमात्रतापत्तिः कर्मणः, तत्र चोक्तो दोषः, अथ भिन्नं तत्कि सचेतनमचेतनं वा ? यदि सचेतनमेकस्मिन् काये चैतन्यद्व यापत्तिः, अथाचेतनं तथा सति कुतस्तस्य पाषाणखण्डस्येवास्वतन्त्रस्य सुखदुःखोत्पादनं प्रति कर्तृखमिति एतच्चोत्तरत्र व्यासेनप्रतिपादयिष्यत इत्यलं प्रसङ्गेन । तदेवं सुखं 'सैद्धिकं' सिद्धौ - अपवर्गलक्षणायां भवं यदिवा दुःखम् - असातोदयलक्षणमसैद्धिकं सांसारिकं, यदिवा उभयमप्येतत्सुखं दुःखं वा, स्रक्चन्दनाङ्गनाद्युपभोगक्रियासिद्धौ भवं तथा कशाताडनाङ्कनादिसिद्धौ भवं सैद्धिकं, तथा 'असैद्धिकं' सुखमान्तरमानन्दरूपमाकस्मिकमनवधारितवाह्यनिमित्तम् एवं दुःखमपि ज्वरशिरोऽर्तिशूलादिरूपम| ङ्गोत्थमसैद्धिकं, तदेतदुभयमपि न स्वयं पुरुषकारेण कृतं नाप्यन्येन केनचित् कालादिना कृतं 'वेदयन्ति' अनुभवन्ति 'पृथजीवाः ' प्राणिन इति । कथं तर्हि तत्तेषामभूत् ? इति नियतिवादी स्वाभिप्रायमाविष्करोति - " संगइयंति" सम्यकस्वपरिणामेन गतिः| यस्य यदा यत्र यत्सुखदुःखानुभवनं सा संगतिः - नियतिस्तस्यां भवं सांगतिकं, यतश्चैवं न पुरुषकारादिकृतं सुखदुःखादि अत| स्तत्तेषां प्राणिनां नियतिकृतं सांगतिकमित्युच्यते, 'इह' अस्मिन् सुखदुःखानुभववादे एकेषां वादिनाम् 'आख्यातं ' तेषामयमभ्युपगमः, तथा चोक्तम् - " प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि | प्रयत्ले, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १ ॥ " ॥ ३ ॥ एवं लोकद्वयेन नियतिवादिमतमुपन्यस्यास्योत्तरदानायाह
Shri Maharaj Aradhana Kendra
www.kobatirth.org
For Private And Personal
anmandir