________________
Shri Mahar
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarnos Frenmandir
eeeeeeeeeeeeeeee
न्धादिवादिनो मिथ्यात्वोपहतान्तरात्मानोऽसद्ग्रहाभिनिविष्टाः परमार्थावबोधविकलाः सन्तः संसारचक्रवाले व्याधिमृत्युजराकुले उच्चावचानि स्थानानि गच्छन्तो गर्भमेष्यन्त्यन्वेषयन्ति वाऽनन्तश' इति, तदिहापि नियत्यज्ञानिज्ञानचतुर्विधकर्माफ्चयवादिनां तदेव संसारचक्रवालभ्रमणगर्भान्वेषणं प्रतिपाद्यते । परम्परसूत्रसम्बन्धस्तु 'बुज्झेझे' त्यादि, तेन च सहायं संबन्धः-तत्र बुध्येतेत्येतत् प्रतिपादितम् , इहापि यदाख्यातं नियतिवादिभिस्त झुध्येत, इत्येवं मध्यसूत्रैरपि यथासंभवं संबन्धो लगनीय इति, तदेवं पूर्वोत्तरसंबन्धसंबद्धस्यास्य सूत्रस्याधुनार्थः प्रतन्यते-पुनःशब्दः पूर्ववादिभ्यो विशेषं दर्शयति, नियतिवादिनां पुनरेकेषामतदाख्यातं, अत्र च 'अविवक्षितकर्मका अपि अकर्मका भवन्तीति ख्यातेर्धातो वे निष्ठाप्रत्ययः तद्योगे कर्तरि षष्ठी, ततश्चायमर्थः-तैर्नियतिवादिभिः पुनरिदमाख्यातं, तेषामयमाशय इत्यर्थः, तद्यथा-'उपपन्ना' युक्त्या घटमानका इति, अनेन च पश्चभूततज्जीवतच्छरीरवादिमतमपाकृतं भवति, युक्तिस्तु लेशतः प्राग्दर्शितैव प्रदर्शयिष्यते च, पृथक पृथक् नारकादिभवेषु शरीरेषु वेति, अनेनाप्यात्माद्वैतवादिनिरासोऽवसेयः, के पुनस्ते पृथगुपपन्नाः, तदाह-'जीवाः' प्राणिनः सुखदुःखभोगिनः,अनेन च पञ्चस्कन्धातिरिक्तजीवाभावप्रतिपादकबौद्धमतापक्षेपः कृतो द्रष्टव्यः, तथा ते जीवाः 'पृथक् पृथक् प्रत्येकदेहे व्यवस्थिताः सुखं || दुःखं च 'वेदयन्ति' अनुभवन्ति, न वयं प्रतिप्राणि प्रतीतं सुखदुःखानुभवं निझुमहे, अनेन चाकवादिनो निरस्ता भवन्ति, अकर्तयेविकारिण्यात्मनि सुखदुःखानुभवानुपपत्तेरिति भावः । तथैतदसाभि पलप्यते 'अदुवे ति अथवा ते प्राणिनः सुखं दुःखं चानुभवन्ति, 'विलुप्यन्ते' उच्छिद्यन्ते खायुषःप्रच्याव्यन्ते स्थानात्स्थानान्तरं संक्राम्यन्त इत्यर्थः,ततश्चौपपातिकत्वमप्यसाभिस्तेषां १न कर्मापचय प्र०।
For Private And Personal