SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsageri yanmandir नो तस्य शरीरस्य किमपि परित्राणाय 'तत्' प्राणव्यपरोपणं भवति, इत्येवमादिकं कारणमनपेक्ष्यैवासौ क्रीडया तच्छीलतया व्य| सनेन वा प्राणिनां हन्ता भवति दण्डादिभिः तथा छेत्ता भवति कर्णनासिका विकर्तनतः तथा भेत्ता शूलादिना तथा लुम्पयिता | अन्यतराङ्गावयवविकर्तनतः तथा विलुम्पयिता अक्ष्युत्पाटनचर्मविकर्त्तनकरपादादिच्छेदनतः परमाधार्मिकवत्प्राणिनां निर्निमित्तमेव नानाविधोपायैः पीडोत्पादको भवति तथा जीवितादप्यपद्रावयिता भवति, स च सद्विवेकमुज्झित्वाऽऽत्मानं वा परित्यज्य बालव| ड्राल :- अज्ञोऽसमीक्षितकारितया जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, तदेवं निर्निमित्तमेव पञ्चेन्द्रियप्राणिपीडनतो यथाऽन| र्थदण्डो भवति तथा प्रतिपादितम् अधुना स्थावरानधिकृत्योच्यते- 'से जहे' त्यादि, यथा कचित्पुरुषो निर्विवेकः पथि गच्छन् | वृक्षादे: पल्लवादिकं दण्डादिना प्रध्वंसयन् फलनिरपेक्षस्तच्छीलतया व्रजति, एतदेव दर्शयति- 'जे इमे' इत्यादि, ये केचन 'अमी' प्रत्यक्षा: स्थावरा वनस्पतिकायाः प्राणिनो भवन्ति, तद्यथा - इक्कडादयो वनस्पतिविशेषा उत्तानार्थास्तदिहेय मिक्कडा ममा| नया प्रयोजनमित्येवमभिसंधाय न छिनत्ति, केवलं तत्पत्रपुष्पफलादि निरपेक्षस्तच्छीलतया छिनत्तीत्येतत्सर्वत्रानुयोजनीयमिति, तथा न पुत्रपोषणाय नो पशुपोषणाय नागारप्रतिबृंहणाय न श्रमणब्राह्मणवृत्तये नापि शरीरस्य किश्चित्परित्राणं भविष्यतीति, केवलमेव- । | मेवासौ वनस्पतिं हन्ता छेत्तेत्यादि यावजन्मान्तरानुबन्धिनो वैरस्याभागी भवति, अयं वनस्पत्याश्रयोऽनर्थदण्डोऽभिहितः ॥ साम्प्रतमन्याश्रितमाह-' से जहे 'त्यादि, तद्यथा नाम कचित्पुरुषः सदसद्विवेक विकलतया कच्छादिकेषु दशसु स्थानेषु वनदुर्गपर्यन्तेषु तृणानि - कुशपुष्पकादीनि पौनःपुन्ये नोर्ध्वाधः स्थानि कृखा 'अग्निकार्य' हुतभुजं 'निस्सृजति' प्रक्षिपत्यन्येन वाऽग्निकार्य बहुसत्त्वापकारिणं दवार्थ 'निसर्जयति' प्रक्षेपयत्यन्यं च निसृजन्तं समनुजानीते । तदेवं योगत्रिकेण कृतकारितानुमतिभिस्तस्य For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy