________________
Shri Mah Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagyanmandir
यया व्यवस्थाप्यते सा समुदानक्रिया, सा च मिथ्यादृष्टेरारभ्य सूक्ष्मसंपरायं यावत् भवति ४, ईर्यापथक्रिया तूपशान्तमोहादारभ्य सयोगिकेवलिनं यावदिति ५, सम्यक्लक्रिया तु सम्यग्दर्शनयोग्याः कर्मप्रकृतीः सप्तसप्ततिसंख्या यया बध्नाति साऽभिधीयते ६, सम्यग्मिथ्यात्वक्रिया तु तद्योग्याः प्रकृतीश्चतुःसप्ततिसंख्या यया क्रियया बध्नाति साऽभिधीयते ७, मिथ्यात्वक्रिया तु सर्वाः प्रकृतीविंशत्युत्तरशतसंख्यास्तीर्थकराहारकशरीरतदङ्गोपाङ्गत्रिकरहिता यया बध्नाति सा मिथ्यात्वक्रियेत्यभिधीयते ८ । साम्प्रतं स्थाननिक्षेपार्थमाह- इयं च गाथाऽऽचारप्रथमश्रुतस्कन्धे द्वितीयाध्ययने लोकविजयाख्ये ' जे गुणे से मूलद्वाणे' इत्यत्र स्थानश - | ब्दस्य सूत्रस्पर्शिकनिर्युक्त्यां प्रबन्धेन व्याख्यातेति नेह प्रतन्यते । इह पुनर्यया क्रियया येन च स्थानेनाधिकारस्तद्दर्शयितुमाह - क्रियाणां मध्ये समुदानिका क्रिया या व्याख्याता, तस्याश्च कषायानुगतखात् बहवो भेदा यतस्ततस्तासां सामुदानिकानां क्रियाणामिह प्रकरणे 'तउत्ति अधिकारो व्यापारः, सम्यक्प्रयुक्ते च भावस्थाने, तच्चेह विरतिरूपं संयमस्थानं प्रशस्तभावसंघनारूपं च गृह्यते, सम्यक्प्रयुक्तभावस्थानग्रहणसामर्थ्यादर्यापथिकी क्रियापि गृह्यते, सामुदानिका क्रियाग्रहणाच्चाप्रशस्तभावस्थानान्यपि गृहीतानि, आभिश्च पूर्वोक्ताभिः क्रियाभिः पूर्वोक्तान् पुरुषान् तद्वारायातान्प्रावादुकांश्च परीक्षेत सर्वानपीति । यथा चैवं तथा स्वत | एव सूत्रकार: 'तंजहा से एगइया मणुस्सा भवंती' त्यादिना तथा प्रावादुकपरीक्षायामपि 'णायओ उवगरणं च विप्पजहाय भिक्खायरियाए समुट्टिया' इत्यादिना वक्ष्यतीति । गतो निर्युक्त्यनुगमः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्
For Private And Personal