SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Maran Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsapagur Gyanmandir इत्यादि, इह-अस्मिन् जगति 'सन्ति' विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाश्च सारम्भाः सपरिग्रहा इत्येवं ज्ञात्वा स भिक्षुरेवम| वधारयेद्-अहमेवात्र खल्वनारम्भोऽपरिग्रहश्च ये चामी गृहस्थादयः सारम्भादिगुणयुक्तास्तदेतन्निश्रया - तदाश्रयेण ब्रह्मचर्यं श्रामण्यमाचरिष्यामो ऽनारम्भा अपरिग्रहाः सन्तः, धर्माधारदेहप्रतिपालनार्थमाहारादिकृते सारम्भपरिग्रहगृहस्थनिश्रया प्रव्रज्यां करिध्याम इत्यर्थः । ननु च यदि तन्निश्रया पुनरपि विहर्तव्यं किमर्थं ते त्यज्यन्त इति जाताशङ्कः पृच्छति – 'कस्य हेतोः केन कारणेन ? तदेतद्गृहस्थश्रमणब्राह्मणत्यजनमभिहितमिति, आचार्योऽपि विदिताभिप्राय उत्तरं ददाति, यथा- 'पूर्वम्' आदौ सार - | म्भपरिग्रहवं तेषां तथा 'पश्चादपि' सर्वकालमपि गृहस्थाः सारम्भादिदोषदुष्टाः श्रमणाथ केचन यथा 'पूर्वं' गृहस्थभावे सार - | म्भाः सपरिग्रहास्तथा 'अपरस्मिन्नपि' प्रव्रज्यारम्भकाले तथाविधा एव त इति, अधुनोभयपदाव्यभिचारितप्रतिपादनार्थमाहयथा 'अपरम्' अपरस्मिन् प्रव्रज्याप्रतिपत्तिकाले तथा 'पूर्वमपि' गृहस्थभावादावपीति, यदिवा - कस्य हेतोस्तद्गृहस्थाद्याश्र - यणं क्रियते यतिनेत्याह-यथा 'पूर्वं' प्रव्रज्यारम्भकाले सर्वमेव भिक्षादिकं गृहस्थायत्तं तथा पश्चादपि, अतः कथं नु नामानवद्या वृत्तिर्भविष्यतीत्यतः साधुभिरनारम्भैः सारम्भाश्रयणं विधेयं । यथा चैते गृहस्थादयः सारम्भाः सपरिग्रहाच तथा प्रत्यक्षेणैवोप| लभ्यन्त इति दर्शयितुमाह - 'अंजू' इति व्यक्तमेतदेते गृहस्थादयो यदिवा- 'अ' इति प्रगुणेन न्यायेन स्वरसप्रवृत्त्या सावद्यानु| ष्ठानेभ्यो ऽनुपरताः परिग्रहारम्भाच्च सत्संयमानुष्ठानेन चानुपस्थिताः - सम्यगुत्थानमकृतवन्तो येऽपि कथञ्चिद्धर्मकरणायोत्थिता| स्तेऽप्युद्दिष्टभोजित्वात्सावद्यानुष्ठानपरत्वाच्च गृहस्थभावानुष्ठानमनतिवर्तमानाः पुनरपि तादृशा एव - गृहस्थ कल्पा एवेति । साम्प्रतमु पसंहरति- य इमे – गृहस्थादयस्ते 'द्विधाऽपि' सारम्भसपरिग्रहत्वाभ्यामुभाभ्यामपि पापान्युपाददते यदिवा रागद्वेषाभ्यामुभा For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy