SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ Shri Mahav d hana Kendra www.kabatirth.org Acharya Shri Kailashsagar mandir कामति संक्रमो विभागो वा । तस्मात्सत्त्वानां कर्म यस्य यत्तेन तद्वद्यम् ॥ १॥" यसात्वकृतकर्मफलेश्वरा जन्तवस्तस्मादेतद्भवतीत्याह-'पत्तेय'मित्यादि, एकमेकं प्रति प्रत्येकं सर्वोऽप्यसुमान् जायते, तथा क्षीणे चायुषि प्रत्येकमेव म्रियते, उक्तं च-"एकस्य । जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥१॥" इति, तथा प्रत्येक क्षेत्रवास्तुहिरण्यसुवर्णादिकं परिग्रहं शब्दादींश्च विषयान् मातापितृकलत्रादिकं च त्यजति, तथा प्रत्येकमुपपद्यते-युज्यते परिग्रहस्वीकरणतया, तथा प्रत्येकं झंझा-कलहस्तद्ग्रहणात्कषायाः परिगृह्यन्ते, ततः प्रत्येकमेवासुमतां मन्दतीव्रतया कषायोद्भवो भवति, तथा संज्ञानं संज्ञा-पदार्थपरिच्छित्तिः, सापि मन्दमन्दतरपटुपटुतरभेदात्प्रत्येकमेवोपजायते, सर्वज्ञादारतस्तरतमयोगेन मतेर्व्यवस्थितखात, तथा प्रत्येकमेव 'मन्नत्ति मननं चिन्तनं पर्यालोचनमितियावत् , तथा प्रत्येकमेव 'विष्णु ति विद्वान् , तथा प्रत्येकमेव सातासातरूप वेदना-सुखदुःखानुभवः, उपसंजिघृक्षुराह-'इति खलु' इत्यादि, 'इति' एवं पूर्वोक्तेन प्रकारेण यतो नान्येन कृतमन्यः प्रतिसं8 वेदयते प्रत्येकं च जातिजरामरणादिकं ततः खल्वमी ज्ञातिसंयोगाः-खजनसंबन्धाः संसारचक्रवाले पर्यटतोऽत्यन्तपीडितस्य 8 तदुद्धरणे न त्राणाय-न त्राणं कुर्वन्ति, नाप्यनागतसंरक्षणतः शरणाय भवन्ति, किमिति ?, यतः पुरुष 'एकदा' क्रोधोदयादिकाले ज्ञातिसंयोगान् 'विप्रजहाति' परित्यजति, 'खजनाश्च न बान्धवा' इति व्यवहारदर्शनात् , ज्ञातिसंयोगा वैकदा तदसदाचारदर्शनतः पूर्वमेव तं पुरुषं परित्यजन्ति-खसंबन्धादुत्तारयन्ति । तदेवं व्यवस्थिते एतद्भावयेत् , तद्यथा-अन्ये खल्वमी ज्ञातिसंयोगा मत्तो भिन्ना इसरा एभ्यश्चान्योऽहमस्मि । तदेवं व्यवस्थिते किमङ्ग पुनर्वयमन्यैरन्यैातिसंयोगैर्मुच्छो कुर्मः १, न तेषु मूर्छा क्रियमाणा न्याय्या इत्येवं 'संख्याय' ज्ञाखा प्रत्याकलय्य वयमुत्पन्नवैराग्या ज्ञातिसंयोगांस्त्यक्ष्याम इत्येवं कृताध्यवसा For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy