________________
Shri Mario
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a
nmandir
क्षणिकस्य विचाराक्षमत्वात्परिणामानित्यपक्ष एव ज्यायांनिति । एवञ्च सत्यात्मा परिणामी ज्ञानाधारो भवान्तरयायी भूतेभ्यः कथञ्चिदन्य एव शरीरेण सहान्योऽन्यानुवेधादनन्योऽपि, तथा सहेतुकोऽपि नारकतिर्यमनुष्यामरभवोपादानकर्मणा तथा तथा विक्रियमाणत्वात पर्यायरूपतयेति, तथाऽऽत्मखरूपाप्रच्युतेनित्यत्वादहेतुकोऽपीति । आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वात् 'चतुौतुकमात्रं शरीरमेवेदमित्येतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति ॥ १८॥साम्प्रतं पञ्चभूतात्माऽद्वैततज्जीवतच्छ-1॥ रीराकारकात्मषष्ठक्षणिकपञ्चस्कन्धवादिनामफलवादित्वं वक्तुकामः सूत्रकारस्तेषां स्वदर्शनफलाभ्युपगमं दर्शयितुमाह
अगारमावसंतावि, अरण्णा वावि पव्वया । इमं दरिसणमाषण्णा, सव्वदुक्खा विमुच्चई ॥ १९॥ _ 'अगारं गृहं तद् 'आवसन्तः' तसिंस्तिष्ठन्तो गृहस्था इत्यर्थः, 'आरण्या वा' तापसादयः, “प्रबजिताश्च' शाक्यादयः, १५ 18|| अपिः संभावने, इदं ते संभावयन्ति यथा-'इदम्' असादीयं दर्शनम् 'आपन्ना' आश्रिताः सर्वदुःखेभ्यो विमुच्यन्ते, आपखा|| देकवचनं सूत्रे कृतं, तथाहि-पश्चभूततज्जीवतच्छरीरवादिनामयमाशयः-यथेदमसदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः
सर्वेभ्यः शिरस्तुण्डमुण्डनदण्डाजिनजटाकाषायचीवरधारणकेशोल्लुश्चननाम्यतपश्चरणकायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते, तथा चोचुः-"तपांसि यातनाश्चित्राः, संयमो भोगवञ्चनम् । अग्निहोत्रादिकं कर्म, बालक्रीडेव लक्ष्यते ॥१॥” इति, सांख्यादयस्तु मोक्षवादिन एवं संभावयन्ति-यथा येऽसदीय दर्शनमकर्तृवात्माऽद्वैतपश्चस्कन्धादिप्रतिपादकमापन्नाः प्रव्रजितास्ते सर्वेभ्यो १ दगसोयरिआदओ चू. तञ्चणिआणं उवासगावि सिज्झति भारोप्पगावि अणागमणधम्मिणो य देवा तमो चेव सिझंति ।
2eeeeeeeeeeeee
For Private And Personal