SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ Shri Martul Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag a nmandir Seeeeeeeeeeeeeeeeeeeeeeee शी तथा नियतेः स्वभावंसानियतस्वभावयाऽनया भवितव्यं न नानास्वभावयेति, एकखाच्च नियतेस्तत्कार्येणाप्येकाकारेणैव भवितव्यं, तथा च सति जगद्वैचित्र्याभावः, न चैतदृष्टमिष्टं वा । तदेवं युक्तिभिर्विचार्यमाणा नियतिर्न कथञ्चिद् घटते, यदप्युक्तंद्वावपि तौ पुरुषी क्रियाक्रियावादिनौ तुल्यौ, एतदपि प्रतीतिबाधितं, यतस्तयोरेकः क्रियावाद्यपरस्त्रक्रियावादीति कथमनयोस्तुल्यसम् , अथैकया नियत्या तथानियतवात्तुल्यता अनयोः, एतच्च निरन्तराः सुहृदः प्रत्येष्यन्ति, नियतेरप्रमाणखात्, अप्रमाणलं च | प्राग्लेशतः प्रदर्शितमेव, यदप्युक्तं-यहुःखादिकमहमनुभवामि तन्नाहमकार्पमित्यादि, तदपि बालवचनप्रायं, यतो(यत्) जन्मान्तर कृतं शुभमशुभं वा तदिहोपभुज्यते, स्वकृतकर्मफलेश्वरखादसुमतां, तथा चोक्तं-'यदिह क्रियते कर्म, तत्परत्रोपभुज्यते । मूलसि४क्तेषु वृक्षेषु, फलं शाखासु जायते ॥१॥" तथा-'यदुपात्तमन्यजन्मनि शुभमशुभं वा स्वकर्म परिणत्या । तच्छक्यमन्यथा नो कर्तुं देवासुरैरपि हि ॥२॥ तदेवं ते नियतिवादिनोऽनार्या विप्रतिपन्नास्तमेव नियुक्तिकं नियतिवादं श्रद्दधानास्तमेव च प्रतीयन्ते इत्यादि तावन्नेयं यावदन्तरा कामभोगेषु विषण्णा इति चतुर्थः पुरुषजातः समाप्तः॥ साम्प्रतमुपसंजिघृक्षुराह-'इत्येते' पूर्वोक्तास्तज्जीवतच्छरीरपञ्चमहाभूतेश्वरकर्तृखनियतिवादपक्षाश्रयिणश्चखारः पुरुषा नानाप्रकारा प्रज्ञा-मतिर्येषां ते तथा नाना-भिन्नश्छन्दःअभिप्रायो येषां ते तथा, नानाप्रकारं शीलम्-अनुष्ठानं येषां ते तथा, नानारूपा दृष्टिः-दर्शनं येषां ते तथा, नानारूपा रुचिःचेतोऽभिप्रायो येषां ते तथा, नानाप्रकार आरम्भो-धर्मानुष्ठानं येषां ते तथा, नानाप्रकारेण-परस्परभिन्नेनाध्यवसायन संयुक्ता धर्मार्थमुद्यताः, प्रहीणः-परित्यक्तः पूर्वसंयोगो-मातृपितृकलत्रपुत्रसंबन्धो यैस्ते तथा, तथा आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो १ परकारणनिरपेक्षत्वेन खाभाविकलात् । २ एकरूपया। For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy