SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥२८९॥ www.kobatirth.org Acharya Shri Kailashsagaanmandir न दुःखमुत्पद्यते परस्य तु सदनुष्ठायिनोऽपि तद्भवतीत्यतो नियतिरेव कर्त्रीति । तदेवं नियतिवादे स्थिते परमपि यत्किञ्चित्तत्सर्वं नियत्यधीनमिति दर्शयितुमाह-' से बेमी' त्यादि, सोऽहं नियतिवादी युक्तितो निश्चित्य 'ब्रवीमी'ति प्रतिपादयामि ये केचन प्राच्यादिषु दिक्षु त्रस्यन्तीति त्रसा-द्वीन्द्रियादयः स्थावराश्च - पृथिव्यादयः प्राणाः प्राणिनस्ते सर्वेऽप्येवं नियतित एवौदारिकादिशरीरसंबन्धमागच्छन्ति, नान्येन केनचित्कर्मादिना शरीरं ग्राह्यन्ते, तथा बालकुमारयौवनस्थविरवृद्धावस्थादिकं विविधपर्यायं नियतित एवानुभवन्ति तथा नियतित एव 'विवेक' शरीरात्पृथग्भावमनुभवन्ति, तथा नियतित एव विविधं विधानम् – अवस्थाविशेषं कुब्जकाणखञ्जवामन कजरामरणरोगशोकादिकं बीभत्समागच्छन्ति, तदेवं ते प्राणिनस्त्रसाः स्थावरा ' एवं ' पूर्वोक्तया नीत्या संगतिं यान्ति-नियतिमापन्ना नानाविधविधानभाजो भवन्ति, त एव वा नियतिवादिनः 'संगइयं' ति नियतिमाश्रित्य 'तदुत्प्रेक्षया' नियतिवादोत्प्रेक्षया यत्किञ्चनकारितया परलोकाभीरवो 'नो' नैव एतद्वक्ष्यमाणं विप्रतिवेदयन्ति - जानन्ति तद्यथा - क्रिया| सद्नुष्ठानरूपा अक्रिया तु-असदनुष्ठानरूपा इत्यादि यावदेवं ते नियतिवादिनस्तदुपरि सर्व दोषजातं प्रक्षिप्य विरूपरूपैः कर्मसमा - रम्भर्विरूपरूपान् कामभोगान् भोजनाय - उपभोगार्थं समारभन्त इति । तदेवमेव - पूर्वोक्तया नीत्या तेनार्या विरूपं नियतिमार्ग प्रतिपन्ना विप्रतिपन्नाः, अनार्यखं पुनस्तेषां नियुक्तिकस्यैव नियतिवादस्य समाश्रयणात्, तथाहि - असौ नियतिः किं स्वत एव नियतिखभावा उतान्यया नियत्या नियम्यते ? किंचातः १, तत्र यद्यसौ स्वयमेव तथास्वभावा सर्वपदार्थानामेव तथास्वभावलं किं न कल्प्यते ?, किं बहुदोषया नियत्या समाश्रितया ? । अथान्यया नियत्या तथा नियम्यते, साऽप्यन्यया साऽप्यन्ययेत्येवमनवस्था | For Private And Personal Despesese १ पुण्डरीकाध्य०नियतिवादी ॥२८९ ॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy